Click on words to see what they mean.

वैशंपायन उवाच ।तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः ।षड्रात्रमवसन्वीरा धनंजयदिदृक्षया ।तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ॥ १ ॥
मनोज्ञे काननवरे सर्वभूतमनोरमे ।पादपैः पुष्पविकचैः फलभारावनामितैः ॥ २ ॥
शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः ।स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥ ३ ॥
सरांसि च विचित्राणि प्रसन्नसलिलानि च ।कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः ।पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः ॥ ४ ॥
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः ।ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् ॥ ५ ॥
ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया ।सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् ॥ ६ ॥
तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् ।अनिलेनाहृतं भूमौ पतितं जलजं शुचि ॥ ७ ॥
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् ।अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥ ८ ॥
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् ।गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् ॥ ९ ॥
एतत्तु धर्मराजाय प्रदास्यामि परंतप ।हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥ १० ॥
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर ।तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥ ११ ॥
एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता ।जगाम धर्मराजाय पुष्पमादाय तत्तदा ॥ १२ ॥
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः ।प्रियायाः प्रियकामः स भीमो भीमपराक्रमः ॥ १३ ॥
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् ।आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि ॥ १४ ॥
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् ।मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः ॥ १५ ॥
द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः ।व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ १६ ॥
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् ।गिरिं चचारारिहरः किंनराचरितं शुभम् ॥ १७ ॥
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः ।सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥ १८ ॥
सर्वर्तुरमणीयेषु गन्धमादनसानुषु ।सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् ॥ १९ ॥
पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च ।बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥ २० ॥
जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् ।गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः ॥ २१ ॥
ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः ।पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥ २२ ॥
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् ।विलोडयामास तदा पुष्पहेतोररिंदमः ॥ २३ ॥
विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः ।विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥ २४ ॥
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः ।मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥ २५ ॥
अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् ।अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् ॥ २६ ॥
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् ।स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः ॥ २७ ॥
सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः ।भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः ॥ २८ ॥
चालयन्नूरुवेगेन लताजालान्यनेकशः ।आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥ २९ ॥
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः ।प्रांशुः कनकतालाभः सिंहसंहननो युवा ॥ ३० ॥
मत्तवारणविक्रान्तो मत्तवारणवेगवान् ।मत्तवारणताम्राक्षो मत्तवारणवारणः ॥ ३१ ॥
प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः ।यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥ ३२ ॥
नवावतारं रूपस्य विक्रीणन्निव पाण्डवः ।चचार रमणीयेषु गन्धमादनसानुषु ॥ ३३ ॥
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् ।द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥ ३४ ॥
सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते ।पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः ॥ ३५ ॥
स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च ।नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥ ३६ ॥
कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् ।प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥ ३७ ॥
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु ।त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥ ३८ ॥
सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः ।उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥ ३९ ॥
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः ।उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ।विनर्दमानोऽतिभृशं सविद्युदिव तोयदः ॥ ४० ॥
तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो ।त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः ॥ ४१ ॥
अथापश्यन्महाबाहुर्गन्धमादनसानुषु ।सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् ॥ ४२ ॥
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः ।महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥ ४३ ॥
उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान् ।चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ॥ ४४ ॥
ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च ।रुरुवारणसंघाश्च महिषाश्च जलाश्रयाः ॥ ४५ ॥
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमभिद्रवन् ।व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः ॥ ४६ ॥
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः ।गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः ।तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥ ४७ ॥
ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः ।भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः ॥ ४८ ॥
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः ।वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥ ४९ ॥
तेन शब्देन चोग्रेण भीमसेनरवेण च ।वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः ॥ ५० ॥
तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् ।जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥ ५१ ॥
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः ।तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥ ५२ ॥
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः ।वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः ॥ ५३ ॥
तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम् ।महागज इवोद्दामश्चिक्रीड बलवद्बली ।विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः ॥ ५४ ॥
ततोऽवगाह्य वेगेन तद्वनं बहुपादपम् ।दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ॥ ५५ ॥
तस्य शङ्खस्य शब्देन भीमसेनरवेण च ।बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः ॥ ५६ ॥
तं वज्रनिष्पेषसममास्फोटितरवं भृशम् ।श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥ ५७ ॥
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत ।मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥ ५८ ॥
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुंगवः ।प्राजृम्भत महाकायो हनूमान्नाम वानरः ॥ ५९ ॥
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा ।जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ।आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् ॥ ६० ॥
तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः ।उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः ॥ ६१ ॥
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् ।अन्तर्धाय विचित्रेषु चचार गिरिसानुषु ॥ ६२ ॥
स भीमसेनस्तं श्रुत्वा संप्रहृष्टतनूरुहः ।शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥ ६३ ॥
कदलीवनमध्यस्थमथ पीने शिलातले ।स ददर्श महाबाहुर्वानराधिपतिं स्थितम् ॥ ६४ ॥
विद्युत्संघातदुष्प्रेक्ष्यं विद्युत्संघातपिङ्गलम् ।विद्युत्संघातसदृशं विद्युत्संघातचञ्चलम् ॥ ६५ ॥
बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् ।स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥ ६६ ॥
किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च ।लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥ ६७ ॥
रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् ।वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् ॥ ६८ ॥
वदनाभ्यन्तरगतैः शुक्लभासैरलंकृतम् ।केसरोत्करसंमिश्रमशोकानामिवोत्करम् ॥ ६९ ॥
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् ।दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम् ॥ ७० ॥
निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः ।तं वानरवरं वीरमतिकायं महाबलम् ॥ ७१ ॥
अथोपसृत्य तरसा भीमो भीमपराक्रमः ।सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा ॥ ७२ ॥
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः ।हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने ।अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥ ७३ ॥
स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत् ।किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ॥ ७४ ॥
ननु नाम त्वया कार्या दया भूतेषु जानता ।वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः ॥ ७५ ॥
मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु ।क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ।धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ७६ ॥
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया ।अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् ॥ ७७ ॥
ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः ।वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥ ७८ ॥
अतः परमगम्योऽयं पर्वतः सुदुरारुहः ।विना सिद्धगतिं वीर गतिरत्र न विद्यते ॥ ७९ ॥
कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल ।नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥ ८० ॥
इमान्यमृतकल्पानि मूलानि च फलानि च ।भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम ॥ ८१ ॥
« »