Click on words to see what they mean.

युधिष्ठिर उवाच ।धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः ।भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् ॥ १ ॥
तव भीम बलेनाहमतिभीमपराक्रम ।अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥ २ ॥
वैशंपायन उवाच ।भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् ।आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् ॥ ३ ॥
हैडिम्बेय परिश्रान्ता तव मातापराजिता ।त्वं च कामगमस्तात बलवान्वह तां खग ॥ ४ ॥
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा ।गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥ ५ ॥
घटोत्कच उवाच ।धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा ।एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ॥ ६ ॥
वैशंपायन उवाच ।एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः ।पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥ ७ ॥
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः ।स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः ॥ ८ ॥
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः ।नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः ॥ ९ ॥
एवं सुरमणीयानि वनान्युपवनानि च ।आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति ॥ १० ॥
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः ।उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥ ११ ॥
देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् ।ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥ १२ ॥
विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः ।तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः ॥ १३ ॥
नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् ।नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् ॥ १४ ॥
ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि ।ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥ १५ ॥
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् ।उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥ १६ ॥
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् ।स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥ १७ ॥
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् ।विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥ १८ ॥
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् ।मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ।मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥ १९ ॥
अदंशमशके देशे बहुमूलफलोदके ।नीलशाद्वलसंछन्ने देवगन्धर्वसेविते ॥ २० ॥
सुसमीकृतभूभागे स्वभावविहिते शुभे ।जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥ २१ ॥
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः ।अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥ २२ ॥
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् ।ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः ॥ २३ ॥
तमसा रहितं पुण्यमनामृष्टं रवेः करैः ।क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥ २४ ॥
महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् ।दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥ २५ ॥
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् ।दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥ २६ ॥
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः ।महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ।शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ॥ २७ ॥
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् ।श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ॥ २८ ॥
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः ।सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥ २९ ॥
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः ।ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥ ३० ॥
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः ।भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥ ३१ ॥
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् ।अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ।आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् ॥ ३२ ॥
प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः ।उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥ ३३ ॥
स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः ।प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः ॥ ३४ ॥
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् ।प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥ ३५ ॥
विवेश शोभया युक्तं भ्रातृभिश्च सहानघ ।ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः ॥ ३६ ॥
तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् ।नरनारायणस्थानं भागीरथ्योपशोभितम् ॥ ३७ ॥
मधुस्रवफलां दिव्यां महर्षिगणसेविताम् ।तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ॥ ३८ ॥
आलोकयन्तो मैनाकं नानाद्विजगणायुतम् ।हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् ॥ ३९ ॥
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् ।मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् ॥ ४० ॥
दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् ।वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥ ४१ ॥
तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः ।ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः ॥ ४२ ॥
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः ।विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥ ४३ ॥
« »