Click on words to see what they mean.

युधिष्ठिर उवाच ।भीमसेन यमौ चोभौ पाञ्चालि च निबोधत ।नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥ १ ॥
दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम् ।अशक्येऽपि व्रजामेति धनंजयदिदृक्षया ॥ २ ॥
तन्मे दहति गात्राणि तूलराशिमिवानलः ।यच्च वीरं न पश्यामि धनंजयमुपान्तिके ॥ ३ ॥
तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् ।याज्ञसेन्याः परामर्शः स च वीर दहत्युत ॥ ४ ॥
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् ।अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥ ५ ॥
तीर्थानि चैव रम्याणि वनानि च सरांसि च ।चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥ ६ ॥
पञ्च वर्षाण्यहं वीरं सत्यसंधं धनंजयम् ।यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥ ७ ॥
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् ।न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥ ८ ॥
कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् ।न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर ॥ ९ ॥
चरन्तमरिसंघेषु कालं क्रुद्धमिवान्तकम् ।प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम् ॥ १० ॥
यः स शक्रादनवरो वीर्येण द्रविणेन च ।यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥ ११ ॥
दुःखेन महताविष्टः स्वकृतेनानिवर्तिना ।अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् ॥ १२ ॥
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा ।ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च ॥ १३ ॥
स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः ।अपि वज्रधरस्यापि भवेत्कालविषोपमः ॥ १४ ॥
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् ।दाताभयस्य बीभत्सुरमितात्मा महाबलः ॥ १५ ॥
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता ।आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥ १६ ॥
रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम ।बहूनि बहुजातानि यानि प्राप्तः सुयोधनः ॥ १७ ॥
यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम ।सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ॥ १८ ॥
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि ।अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् ॥ १९ ॥
संकर्षणं महावीर्यं त्वां च भीमापराजितम् ।अनुजातः स वीर्येण वासुदेवं च शत्रुहा ॥ २० ॥
यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः ।जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥ २१ ॥
ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः ।प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥ २२ ॥
विशाला बदरी यत्र नरनारायणाश्रमः ।तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ॥ २३ ॥
कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम् ।पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः ॥ २४ ॥
नातप्ततपसा शक्यो देशो गन्तुं वृकोदर ।न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥ २५ ॥
तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः ।सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः ॥ २६ ॥
मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् ।प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥ २७ ॥
ते वयं नियतात्मानः पर्वतं गन्धमादनम् ।प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः ॥ २८ ॥
« »