Click on words to see what they mean.

युधिष्ठिर उवाच ।अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च ।अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ॥ १ ॥
संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् ।ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह ॥ २ ॥
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति ।बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥ ३ ॥
अथ वा सहदेवेन धौम्येन च सहाभिभो ।सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥ ४ ॥
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि ।सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥ ५ ॥
त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः ।अहं च नकुलश्चैव लोमशश्च महातपाः ॥ ६ ॥
ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः ।वसेह द्रौपदीं रक्षन्यावदागमनं मम ॥ ७ ॥
भीम उवाच ।राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत ।व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥ ८ ॥
तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः ।किं पुनः सहदेवं च मां च कृष्णां च भारत ॥ ९ ॥
रथाः कामं निवर्तन्तां सर्वे च परिचारकाः ।सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् ॥ १० ॥
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् ।शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च ॥ ११ ॥
इयं चापि महाभागा राजपुत्री यतव्रता ।त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥ १२ ॥
तथैव सहदेवोऽयं सततं त्वामनुव्रतः ।न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥ १३ ॥
अपि चात्र महाराज सव्यसाचिदिदृक्षया ।सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥ १४ ॥
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः ।पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥ १५ ॥
अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति ।इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥ १६ ॥
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ ।दुर्गे संतारयिष्यामि यद्यशक्तौ भविष्यतः ॥ १७ ॥
युधिष्ठिर उवाच ।एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् ।यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि ॥ १८ ॥
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते ।बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् ॥ १९ ॥
यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया ।मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ॥ २० ॥
वैशंपायन उवाच ।ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा ।गमिष्यामि न संतापः कार्यो मां प्रति भारत ॥ २१ ॥
लोमश उवाच ।तपसा शक्यते गन्तुं पर्वतो गन्धमादनः ।तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥ २२ ॥
नकुलः सहदेवश्च भीमसेनश्च पार्थिव ।अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥ २३ ॥
वैशंपायन उवाच ।एवं संभाषमाणास्ते सुबाहोर्विषयं महत् ।ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥ २४ ॥
किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम् ।हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ॥ २५ ॥
सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत ।विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् ॥ २६ ॥
तत्र ते पूजितास्तेन सर्व एव सुखोषिताः ।प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ॥ २७ ॥
इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा ।सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप ॥ २८ ॥
राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः ।पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ॥ २९ ॥
ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः ।तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् ॥ ३० ॥
« »