Click on words to see what they mean.

लोमश उवाच ।एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः ।सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान् ॥ १ ॥
तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू ।वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता ॥ २ ॥
तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः ।आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥ ३ ॥
अथावलोककोऽगच्छद्गृहानेकः परावसुः ।कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥ ४ ॥
जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि ।चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥ ५ ॥
मृगं तु मन्यमानेन पिता वै तेन हिंसितः ।अकामयानेन तदा शरीरत्राणमिच्छता ॥ ६ ॥
स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत ।पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः ॥ ७ ॥
इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन ।मया तु हिंसितस्तातो मन्यमानेन तं मृगम् ॥ ८ ॥
सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् ।समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ॥ ९ ॥
अर्वावसुरुवाच ।करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः ।ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥ १० ॥
लोमश उवाच ।स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर ।अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥ ११ ॥
ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् ।बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम् ॥ १२ ॥
एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति ।ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः ॥ १३ ॥
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा ।न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः ॥ १४ ॥
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत ।नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् ।मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् ॥ १५ ॥
प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप ।तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥ १६ ॥
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः ।स चापि वरयामास पितुरुत्थानमात्मनः ॥ १७ ॥
अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे ।भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ॥ १८ ॥
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ।अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ॥ १९ ॥
समधीतं मया ब्रह्म व्रतानि चरितानि च ।कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् ।तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥ २० ॥
देवा ऊचुः ।मैवं कृथा यवक्रीत यथा वदसि वै मुने ।ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा ॥ २१ ॥
अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा ।कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥ २२ ॥
लोमश उवाच ।यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः ।संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥ २३ ॥
आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः ।अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे ॥ २४ ॥
« »