Click on words to see what they mean.

अष्टावक्र उवाच ।अत्रोग्रसेनसमितेषु राजन्समागतेष्वप्रतिमेषु राजसु ।न वै विवित्सान्तरमस्ति वादिनां महाजले हंसनिनादिनामिव ॥ १ ॥
न मेऽद्य वक्ष्यस्यतिवादिमानिन्ग्लहं प्रपन्नः सरितामिवागमः ।हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य बन्दिन् ॥ २ ॥
बन्द्युवाच ।व्याघ्रं शयानं प्रति मा प्रबोधय आशीविषं सृक्किणी लेलिहानम् ।पदाहतस्येव शिरोऽभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध ॥ ३ ॥
यो वै दर्पात्संहननोपपन्नः सुदुर्बलः पर्वतमाविहन्ति ।तस्यैव पाणिः सनखो विशीर्यते न चैव शैलस्य हि दृश्यते व्रणः ॥ ४ ॥
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः ।निकृष्टभूता राजानो वत्सा अनदुहो यथा ॥ ५ ॥
लोमश उवाच ।अष्टावक्रः समितौ गर्जमानो जातक्रोधो बन्दिनमाह राजन् ।उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥ ६ ॥
बन्द्युवाच ।एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं प्रभासते ।एको वीरो देवराजो निहन्ता यमः पितॄणामीश्वरश्चैक एव ॥ ७ ॥
अष्टावक्र उवाच ।द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदः पर्वतश्च ।द्वावश्विनौ द्वे च रथस्य चक्रे भार्यापती द्वौ विहितौ विधात्रा ॥ ८ ॥
बन्द्युवाच ।त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति ।अध्वर्यवस्त्रिषवणानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥ ९ ॥
अष्टावक्र उवाच ।चतुष्टयं ब्राह्मणानां निकेतं चत्वारो युक्ता यज्ञमिमं वहन्ति ।दिशश्चतस्रश्चतुरश्च वर्णाश्चतुष्पदा गौरपि शश्वदुक्ता ॥ १० ॥
बन्द्युवाच ।पञ्चाग्नयः पञ्चपदा च पङ्क्तिर्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि ।दृष्टा वेदे पञ्चचूडाश्च पञ्च लोके ख्यातं पञ्चनदं च पुण्यम् ॥ ११ ॥
अष्टावक्र उवाच ।षडाधाने दक्षिणामाहुरेके षडेवेमे ऋतवः कालचक्रम् ।षडिन्द्रियाण्युत षट्कृत्तिकाश्च षट्साद्यस्काः सर्ववेदेषु दृष्टाः ॥ १२ ॥
बन्द्युवाच ।सप्त ग्राम्याः पशवः सप्त वन्याः सप्त छन्दांसि क्रतुमेकं वहन्ति ।सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा ॥ १३ ॥
अष्टावक्र उवाच ।अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती ।अष्टौ वसूञ्शुश्रुम देवतासु यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः ॥ १४ ॥
बन्द्युवाच ।नवैवोक्ताः सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम् ।नवाक्षरा बृहती संप्रदिष्टा नवयोगो गणनामेति शश्वत् ॥ १५ ॥
अष्टावक्र उवाच ।दशा दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दश पूर्णं शतानि ।दशैव मासान्बिभ्रति गर्भवत्यो दशेरका दश दाशा दशार्णाः ॥ १६ ॥
बन्द्युवाच ।एकादशैकादशिनः पशूनामेकादशैवात्र भवन्ति यूपाः ।एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः ॥ १७ ॥
अष्टावक्र उवाच ।संवत्सरं द्वादश मासमाहुर्जगत्याः पादो द्वादशैवाक्षराणि ।द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह विप्राः ॥ १८ ॥
बन्द्युवाच ।त्रयोदशी तिथिरुक्ता महोग्रा त्रयोदशद्वीपवती मही च ॥ १९ ॥
लोमश उवाच ।एतावदुक्त्वा विरराम बन्दी श्लोकस्यार्धं व्याजहाराष्टवक्रः ।त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥ २० ॥
ततो महानुदतिष्ठन्निनादस्तूष्णींभूतं सूतपुत्रं निशम्य ।अधोमुखं ध्यानपरं तदानीमष्टावक्रं चाप्युदीर्यन्तमेव ॥ २१ ॥
तस्मिंस्तथा संकुले वर्तमाने स्फीते यज्ञे जनकस्याथ राज्ञः ।अष्टावक्रं पूजयन्तोऽभ्युपेयुर्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥ २२ ॥
अष्टावक्र उवाच ।अनेन वै ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः किल ।तानेव धर्मानयमद्य बन्दी प्राप्नोतु गृह्याप्सु निमज्जयैनम् ॥ २३ ॥
बन्द्युवाच ।अहं पुत्रो वरुणस्योत राज्ञस्तत्रास सत्रं द्वादशवार्षिकं वै ।सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥ २४ ॥
एते सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इह आयान्ति भूयः ।अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये ॥ २५ ॥
अष्टावक्र उवाच ।विप्राः समुद्राम्भसि मज्जितास्ते वाचा जिता मेधया आविदानाः ।तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः ॥ २६ ॥
अग्निर्दहञ्जातवेदाः सतां गृहान्विसर्जयंस्तेजसा न स्म धाक्षीत् ।बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः ॥ २७ ॥
श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति ।हस्तीव त्वं जनक वितुद्यमानो न मामिकां वाचमिमां शृणोषि ॥ २८ ॥
जनक उवाच ।शृणोमि वाचं तव दिव्यरूपाममानुषीं दिव्यरूपोऽसि साक्षात् ।अजैषीर्यद्बन्दिनं त्वं विवादे निसृष्ट एष तव कामोऽद्य बन्दी ॥ २९ ॥
अष्टावक्र उवाच ।नानेन जीवता कश्चिदर्थो मे बन्दिना नृप ।पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥ ३० ॥
बन्द्युवाच ।अहं पुत्रो वरुणस्योत राज्ञो न मे भयं सलिले मज्जितस्य ।इमं मुहूर्तं पितरं द्रक्ष्यतेऽयमष्टावक्रश्चिरनष्टं कहोडम् ॥ ३१ ॥
लोमश उवाच ।ततस्ते पूजिता विप्रा वरुणेन महात्मना ।उदतिष्ठन्त ते सर्वे जनकस्य समीपतः ॥ ३२ ॥
कहोड उवाच ।इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा ।यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ॥ ३३ ॥
उताबलस्य बलवानुत बालस्य पण्डितः ।उत वाविदुषो विद्वान्पुत्रो जनक जायते ॥ ३४ ॥
बन्द्युवाच ।शितेन ते परशुना स्वयमेवान्तको नृप ।शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते ॥ ३५ ॥
महदुक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे ।शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः साक्षाद्देवा जनकस्येह यज्ञे ॥ ३६ ॥
लोमश उवाच ।समुत्थितेष्वथ सर्वेषु राजन्विप्रेषु तेष्वधिकं सुप्रभेषु ।अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत बन्दी ॥ ३७ ॥
अष्टावक्रः पितरं पूजयित्वा संपूजितो ब्राह्मणैस्तैर्यथावत् ।प्रत्याजगामाश्रममेव चाग्र्यं जित्वा बन्दिं सहितो मातुलेन ॥ ३८ ॥
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः ।पुण्यान्यन्यानि शुचिकर्मैकभक्तिर्मया सार्धं चरितास्याजमीढ ॥ ३९ ॥
« »