Click on words to see what they mean.

जनमेजय उवाच ।प्रभासतीर्थं संप्राप्य वृष्णयः पाण्डवास्तथा ।किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥ १ ॥
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः ।वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् ॥ २ ॥
वैशंपायन उवाच ।प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः ।वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे ॥ ३ ॥
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः ।वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥ ४ ॥
न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय ।युधिष्ठिरो यत्र जटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः ॥ ५ ॥
दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति ।धर्मादधर्मश्चरितो गरीयानितीव मन्येत नरोऽल्पबुद्धिः ॥ ६ ॥
दुर्योधने चापि विवर्धमाने युधिष्ठिरे चासुख आत्तराज्ये ।किं न्वद्य कर्तव्यमिति प्रजाभिः शङ्का मिथः संजनिता नराणाम् ॥ ७ ॥
अयं हि धर्मप्रभवो नरेन्द्रो धर्मे रतः सत्यधृतिः प्रदाता ।चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतश्च कथं विवर्धेत् ॥ ८ ॥
कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः ।प्रव्राज्य पार्थान्सुखमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान् ॥ ९ ॥
किं नाम वक्ष्यत्यवनिप्रधानः पितॄन्समागम्य परत्र पापः ।पुत्रेषु सम्यक्चरितं मयेति पुत्रानपापानवरोप्य राज्यात् ॥ १० ॥
नासौ धिया संप्रतिपश्यति स्म किं नाम कृत्वाहमचक्षुरेवम् ।जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्य कौन्तेयमथापि राज्यात् ॥ ११ ॥
नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान् ।विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं बत पश्यति स्म ॥ १२ ॥
व्यूढोत्तरांसान्पृथुलोहिताक्षान्नेमान्स्म पृच्छन्स शृणोति नूनम् ।प्रस्थापयद्यत्स वनं ह्यशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम् ॥ १३ ॥
योऽयं परेषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात् ।श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥ १४ ॥
स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः ।वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे ॥ १५ ॥
न ह्यस्य वीर्येण बलेन कश्चित्समः पृथिव्यां भविता नरेषु ।शीतोष्णवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात् ॥ १६ ॥
प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु ।स्वस्त्यागमद्योऽतिरथस्तरस्वी सोऽयं वने क्लिश्यति चीरवासाः ॥ १७ ॥
यो दन्तकूरे व्यजयन्नृदेवान्समागतान्दाक्षिणात्यान्महीपान् ।तं पश्यतेमं सहदेवमद्य तपस्विनं तापसवेषरूपम् ॥ १८ ॥
यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रति युद्धशौण्डः ।सोऽयं वने मूलफलेन जीवञ्जटी चरत्यद्य मलाचिताङ्गः ॥ १९ ॥
सत्रे समृद्धेऽति रथस्य राज्ञो वेदीतलादुत्पतिता सुता या ।सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा ॥ २० ॥
त्रिवर्गमुख्यस्य समीरणस्य देवेश्वरस्याप्यथ वाश्विनोश्च ।एषां सुराणां तनयाः कथं नु वने चरन्त्यल्पसुखाः सुखार्हाः ॥ २१ ॥
जिते हि धर्मस्य सुते सभार्ये सभ्रातृके सानुचरे निरस्ते ।दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला ॥ २२ ॥
« »