Click on words to see what they mean.

लोमश उवाच ।सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये ।संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥ १ ॥
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् ।नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥ २ ॥
अतीव रमणीयं तदतीव च मनोहरम् ।चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् ॥ ३ ॥
ततो निबध्य तां नावमदूरे काश्यपाश्रमात् ।चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥ ४ ॥
ततो दुहितरं वेश्या समाधायेतिकृत्यताम् ।दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् ॥ ५ ॥
सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ ।आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥ ६ ॥
वेश्योवाच ।कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम् ।कच्चिद्भवान्रमते चाश्रमेऽस्मिंस्त्वां वै द्रष्टुं सांप्रतमागतोऽस्मि ॥ ७ ॥
कच्चित्तपो वर्धते तापसानां पिता च ते कच्चिदहीनतेजाः ।कच्चित्त्वया प्रीयते चैव विप्र कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग ॥ ८ ॥
ऋश्यशृङ्ग उवाच ।ऋद्धो भवाञ्ज्योतिरिव प्रकाशते मन्ये चाहं त्वामभिवादनीयम् ।पाद्यं वै ते संप्रदास्यामि कामाद्यथाधर्मं फलमूलानि चैव ॥ ९ ॥
कौश्यां बृस्यामास्स्व यथोपजोषं कृष्णाजिनेनावृतायां सुखायाम् ।क्व चाश्रमस्तव किं नाम चेदं व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् ॥ १० ॥
वेश्योवाच ।ममाश्रमः काश्यपपुत्र रम्यस्त्रियोजनं शैलमिमं परेण ।तत्र स्वधर्मोऽनभिवादनं नो न चोदकं पाद्यमुपस्पृशामः ॥ ११ ॥
ऋश्यशृङ्ग उवाच ।फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैव ।परूषकानीङ्गुदधन्वनानि प्रियालानां कामकारं कुरुष्व ॥ १२ ॥
लोमश उवाच ।सा तानि सर्वाणि विसर्जयित्वा भक्षान्महार्हान्प्रददौ ततोऽस्मै ।तान्यृश्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर्हि ॥ १३ ॥
ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति ।पानानि चाग्र्याणि ततो मुमोद चिक्रीड चैव प्रजहास चैव ॥ १४ ॥
सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव ।गात्रैश्च गात्राणि निषेवमाणा समाश्लिषच्चासकृदृश्यशृङ्गम् ॥ १५ ॥
सर्जानशोकांस्तिलकांश्च वृक्षान्प्रपुष्पितानवनाम्यावभज्य ।विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः ॥ १६ ॥
अथर्श्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य ।अवेक्षमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम् ॥ १७ ॥
तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृश्यशृङ्गः ।तामेव भावेन गतेन शून्यो विनिःश्वसन्नार्तरूपो बभूव ॥ १८ ॥
ततो मुहूर्ताद्धरिपिङ्गलाक्षः प्रवेष्टितो रोमभिरा नखाग्रात् ।स्वाध्यायवान्वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत् ॥ १९ ॥
सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम् ।विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभाण्डकः पुत्रमुवाच दीनम् ॥ २० ॥
न कल्प्यन्ते समिधः किं नु तात कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य ।सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः कच्चित्सवत्सा च कृता त्वयाद्य ॥ २१ ॥
न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च ।दीनोऽतिमात्रं त्वमिहाद्य किं नु पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥ २२ ॥
« »