Click on words to see what they mean.

लोमश उवाच ।एषा देवनदी पुण्या कौशिकी भरतर्षभ ।विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ॥ १ ॥
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः ।ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः ॥ २ ॥
तपसो यः प्रभावेन वर्षयामास वासवम् ।अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥ ३ ॥
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः ।विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥ ४ ॥
निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः ।लोमपादो दुहितरं सावित्रीं सविता यथा ॥ ५ ॥
युधिष्ठिर उवाच ।ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः ।विरुद्धे योनिसंसर्गे कथं च तपसा युतः ॥ ६ ॥
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः ।अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥ ७ ॥
कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता ।लोभयामास या चेतो मृगभूतस्य तस्य वै ॥ ८ ॥
लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः ।कथं वै विषये तस्य नावर्षत्पाकशासनः ॥ ९ ॥
एतन्मे भगवन्सर्वं विस्तरेण यथातथम् ।वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस्य चेष्टितम् ॥ १० ॥
लोमश उवाच ।विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः ।अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ॥ ११ ॥
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् ।महाह्रदे महातेजा बालः स्थविरसंमतः ॥ १२ ॥
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः ।दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः ॥ १३ ॥
तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् ।अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा ॥ १४ ॥
सह तोयेन तृषिता सा गर्भिण्यभवन्नृप ।अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् ॥ १५ ॥
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः ।ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत ॥ १६ ॥
तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः ।तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥ १७ ॥
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः ।तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥ १८ ॥
एतस्मिन्नेव काले तु सखा दशरथस्य वै ।लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् ॥ १९ ॥
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः ।स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः ॥ २० ॥
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया ।न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥ २१ ॥
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः ।प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः ॥ २२ ॥
कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् ।तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः ॥ २३ ॥
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह ।कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर ॥ २४ ॥
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव ।वानेयमनभिज्ञं च नारीणामार्जवे रतम् ॥ २५ ॥
स चेदवतरेद्राजन्विषयं ते महातपाः ।सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः ॥ २६ ॥
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः ।स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ।राजानमागतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः ॥ २७ ॥
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् ।ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ॥ २८ ॥
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः ।शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ॥ २९ ॥
तत आनाययामास वारमुख्या महीपतिः ।वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ॥ ३० ॥
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः ।लोभयित्वाभिविश्वास्य विषयं मम शोभनाः ॥ ३१ ॥
ता राजभयभीताश्च शापभीताश्च योषितः ।अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः ॥ ३२ ॥
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् ।प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥ ३३ ॥
अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि ।ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् ॥ ३४ ॥
तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः ।धनं च प्रददौ भूरि रत्नानि विविधानि च ॥ ३५ ॥
ततो रूपेण संपन्ना वयसा च महीपते ।स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥ ३६ ॥
« »