Click on words to see what they mean.

लोमश उवाच ।तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः ।गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् ॥ १ ॥
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः ।ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् ॥ २ ॥
युधिष्ठिर उवाच ।कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने ।कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥ ३ ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥ ४ ॥
वैशंपायन उवाच ।एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना ।कथयामास माहात्म्यं सगरस्य महात्मनः ॥ ५ ॥
लोमश उवाच ।इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः ।रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् ॥ ६ ॥
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत ।वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत ॥ ७ ॥
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते ।वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ ॥ ८ ॥
स पुत्रकामो नृपतिस्तताप सुमहत्तपः ।पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥ ९ ॥
स तप्यमानः सुमहत्तपो योगसमन्वितः ।आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥ १० ॥
शंकरं भवमीशानं शूलपानिं पिनाकिनम् ।त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥ ११ ॥
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः ।प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत ॥ १२ ॥
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् ।यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥ १३ ॥
षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः ।एकस्यां संभविष्यन्ति पत्न्यां तव नरोत्तम ॥ १४ ॥
ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव ।एको वंशधरः शूर एकस्यां संभविष्यति ।एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ॥ १५ ॥
स चापि सगरो राजा जगाम स्वं निवेशनम् ।पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा ॥ १६ ॥
तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे ।वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः ॥ १७ ॥
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत ।शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ॥ १८ ॥
तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः ।अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् ॥ १९ ॥
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि ।अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् ॥ २० ॥
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः ।ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥ २१ ॥
महादेवेन दिष्टं ते पुत्रजन्म नराधिप ।अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥ २२ ॥
« »