Click on words to see what they mean.

देवा ऊचुः ।इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः ।ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः ॥ १ ॥
लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः ।त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥ २ ॥
इदं च समनुप्राप्तं लोकानां भयमुत्तमम् ।न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः ॥ ३ ॥
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति ।ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥ ४ ॥
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते ।विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥ ५ ॥
विष्णुरुवाच ।विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् ।भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥ ६ ॥
कालेय इति विख्यातो गणः परमदारुणः ।तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् ॥ ७ ॥
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता ।जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥ ८ ॥
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् ।उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह ॥ ९ ॥
न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते ।समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम् ।अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ॥ १० ॥
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् ।परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः ॥ ११ ॥
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् ।उपास्यमानमृषिभिर्देवैरिव पितामहम् ॥ १२ ॥
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् ।आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् ॥ १३ ॥
देवा ऊचुः ।नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा ।भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥ १४ ॥
क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः ।वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥ १५ ॥
तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः ।त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥ १६ ॥
अस्माकं भयभीतानां नित्यशो भगवान्गतिः ।ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि ॥ १७ ॥
« »