Click on words to see what they mean.

धृतराष्ट्र उवाच ।भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् ।मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ॥ १ ॥
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च ।गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ॥ २ ॥
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् ।पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥ ३ ॥
व्यास उवाच ।वैचित्रवीर्य नृपते सत्यमाह यथा भवान् ।दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ॥ ४ ॥
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः ।अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ॥ ५ ॥
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् ।सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ॥ ६ ॥
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल ।गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत ॥ ७ ॥
इन्द्र उवाच ।किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् ।मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ॥ ८ ॥
सुरभिरुवाच ।विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप ।अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥ ९ ॥
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् ।प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ॥ १० ॥
एतं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप ।कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ॥ ११ ॥
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् ।अपरोऽल्पबलप्राणः कृशो धमनिसंततः ।कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥ १२ ॥
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः ।नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥ १३ ॥
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता ।अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥ १४ ॥
इन्द्र उवाच ।तव पुत्रसहस्रेषु पीड्यमानेषु शोभने ।किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ॥ १५ ॥
सुरभिरुवाच ।यदि पुत्रसहस्रं मे सर्वत्र सममेव मे ।दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ॥ १६ ॥
व्यास उवाच ।तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः ।जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥ १७ ॥
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् ।कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥ १८ ॥
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा ।सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ॥ १९ ॥
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक ।विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥ २० ॥
चिराय तव पुत्राणां शतमेकश्च पार्थिव ।पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ॥ २१ ॥
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि ।इति दीनेषु पार्थेषु मनो मे परितप्यते ॥ २२ ॥
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि ।दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥ २३ ॥
« »