Click on words to see what they mean.

वैशंपायन उवाच ।वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः ।अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥ १ ॥
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान् ।प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥ २ ॥
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः ।पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ॥ ३ ॥
अद्य देवाः संप्रयाताः समैर्वर्त्मभिरस्थलैः ।गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः ॥ ४ ॥
नरकं पातिताः पार्था दीर्घकालमनन्तकम् ।सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥ ५ ॥
बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः ।ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ॥ ६ ॥
चित्रान्संनाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति ।निवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः ॥ ७ ॥
न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा ।ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा विपर्यये षण्ढतिला इवाफलाः ॥ ८ ॥
अयं हि वासोदय ईदृशानां मनस्विनां कौरव मा भवेद्वः ।अदीक्षितानामजिनानि यद्वद्बलीयसां पश्यत पाण्डवानाम् ॥ ९ ॥
महाप्राज्ञः सोमको यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय ।अकार्षीद्वै दुष्कृतं नेह सन्ति क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥ १० ॥
सूक्ष्मान्प्रावारानजिनानि चोदितान्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् ।कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्व यमिहान्यमिच्छसि ॥ ११ ॥
एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः ।एषां वृणीष्वैकतमं पतित्वे न त्वां तपेत्कालविपर्ययोऽयम् ॥ १२ ॥
यथाफलाः षण्ढतिला यथा चर्ममया मृगाः ।तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥ १३ ॥
किं पाण्डवांस्त्वं पतितानुपास्से मोघः श्रमः षण्ढतिलानुपास्य ।एवं नृशंसः परुषाणि पार्थानश्रावयद्धृतराष्ट्रस्य पुत्रः ॥ १४ ॥
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् ।उवाचेदं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम् ॥ १५ ॥
भीमसेन उवाच ।क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे ।गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥ १६ ॥
यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम् ।तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥ १७ ॥
ये च त्वामनुवर्तन्ते कामलोभवशानुगाः ।गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् ॥ १८ ॥
वैशंपायन उवाच ।एवं ब्रुवाणमजिनैर्विवासितं दुःखाभिभूतं परिनृत्यति स्म ।मध्ये कुरूणां धर्मनिबद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥ १९ ॥
भीमसेन उवाच ।नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया ।निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥ २० ॥
मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः ।यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे ॥ २१ ॥
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् ।शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः ॥ २२ ॥
वैशंपायन उवाच ।तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात् ।गतिं स्वगत्यानुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः ॥ २३ ॥
नैतावता कृतमित्यब्रवीत्तं वृकोदरः संनिवृत्तार्धकायः ।शीघ्रं हि त्वा निहतं सानुबन्धं संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥ २४ ॥
एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी ।राजानुगः संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः ॥ २५ ॥
अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः ।शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥ २६ ॥
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः ।सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥ २७ ॥
सुयोधनमिमं पापं हन्तास्मि गदया युधि ।शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ २८ ॥
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः ।दुःशासनस्य रुधिरं पातास्मि मृगराडिव ॥ २९ ॥
अर्जुन उवाच ।नैव वाचा व्यवसितं भीम विज्ञायते सताम् ।इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥ ३० ॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ ३१ ॥
असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् ।भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥ ३२ ॥
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया ।कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः ॥ ३३ ॥
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः ।तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् ॥ ३४ ॥
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः ।शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ ३५ ॥
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे ।दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ॥ ३६ ॥
वैशंपायन उवाच ।इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः ।प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ ३७ ॥
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् ।क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ॥ ३८ ॥
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर ।नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥ ३९ ॥
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् ।कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥ ४० ॥
हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् ।यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल ॥ ४१ ॥
सहदेववचः श्रुत्वा नकुलोऽपि विशां पते ।दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ ४२ ॥
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥ ४३ ॥
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् ।दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥ ४४ ॥
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् ।निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥ ४५ ॥
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः ।प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ॥ ४६ ॥
« »