Click on words to see what they mean.

वैशंपायन उवाच ।ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् ।उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥ १ ॥
उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर ।एहि पाण्डव दीव्येति पिता त्वामाह भारत ॥ २ ॥
युधिष्ठिर उवाच ।धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् ।न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि ॥ ३ ॥
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च ।जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥ ४ ॥
वैशंपायन उवाच ।इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः ।जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥ ५ ॥
विविशुस्ते सभां तां तु पुनरेव महारथाः ।व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ॥ ६ ॥
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये ।सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥ ७ ॥
शकुनिरुवाच ।अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् ।महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ॥ ८ ॥
वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः ।प्रविशेम महारण्यं रौरवाजिनवाससः ॥ ९ ॥
त्रयोदशं च सजने अज्ञाताः परिवत्सरम् ।ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ १० ॥
अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश ।वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ॥ ११ ॥
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् ।स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ॥ १२ ॥
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर ।अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ॥ १३ ॥
सभासद ऊचुः ।अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् ।बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः ॥ १४ ॥
वैशंपायन उवाच ।जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः ।ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः ॥ १५ ॥
जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् ।अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् ॥ १६ ॥
युधिष्ठिर उवाच ।कथं वै मद्विधो राजा स्वधर्ममनुपालयन् ।आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥ १७ ॥
शकुनिरुवाच ।गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् ।गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ॥ १८ ॥
एष नो ग्लह एवैको वनवासाय पाण्डवाः ।यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥ १९ ॥
अनेन व्यवसायेन दीव्याम भरतर्षभ ।समुत्क्षेपेण चैकेन वनवासाय भारत ॥ २० ॥
वैशंपायन उवाच ।प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः ।जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २१ ॥
« »