Click on words to see what they mean.

जनमेजय उवाच ।अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान् ।पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥ १ ॥
वैशंपायन उवाच ।अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता ।राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ॥ २ ॥
दुर्योधनं समासाद्य सामात्यं भरतर्षभ ।दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ ३ ॥
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ ।शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥ ४ ॥
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।मिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः ॥ ५ ॥
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् ।अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥ ६ ॥
दुर्योधन उवाच ।न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः ।शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥ ७ ॥
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण ।पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥ ८ ॥
ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान् ।यदि तान्योधयिष्यामः किं वा नः परिहास्यति ॥ ९ ॥
अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् ।कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥ १० ॥
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः ।निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा ॥ ११ ॥
संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी ।गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥ १२ ॥
गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः ।स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् ॥ १३ ॥
नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् ।सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥ १४ ॥
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् ।अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ॥ १५ ॥
न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते ।द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥ १६ ॥
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः ।एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ ॥ १७ ॥
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः ।प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥ १८ ॥
त्रयोदशं च सजने अज्ञाताः परिवत्सरम् ।ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ १९ ॥
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् ।अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ॥ २० ॥
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ ।अयं हि शकुनिर्वेद सविद्यामक्षसंपदम् ॥ २१ ॥
दृढमूला वयं राज्ये मित्राणि परिगृह्य च ।सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥ २२ ॥
ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् ।जेष्यामस्तान्वयं राजन्रोचतां ते परंतप ॥ २३ ॥
धृतराष्ट्र उवाच ।तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि ।आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥ २४ ॥
वैशंपायन उवाच ।ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः ।विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥ २५ ॥
भूरिश्रवाः शांतनवो विकर्णश्च महारथः ।मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥ २६ ॥
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् ।अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥ २७ ॥
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् ।पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ॥ २८ ॥
जाते दुर्योधने क्षत्ता महामतिरभाषत ।नीयतां परलोकाय साध्वयं कुलपांसनः ॥ २९ ॥
व्यनदज्जातमात्रो हि गोमायुरिव भारत ।अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥ ३० ॥
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो ।मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ॥ ३१ ॥
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् ।शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत ॥ ३२ ॥
स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः ।शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा ॥ ३३ ॥
न वै वृद्धो बालमतिर्भवेद्राजन्कथंचन ।त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ॥ ३४ ॥
शमेन धर्मेण परस्य बुद्ध्या जाता बुद्धिः सास्तु ते मा प्रतीपा ।प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ ३५ ॥
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् ।अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ॥ ३६ ॥
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः ।पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह ॥ ३७ ॥
« »