Click on words to see what they mean.

कर्ण उवाच ।या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः ।तासामेतादृशं कर्म न कस्यांचन शुश्रुमः ॥ १ ॥
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति ।द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥ २ ॥
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् ।पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ॥ ३ ॥
वैशंपायन उवाच ।तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः ।स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ॥ ४ ॥
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ।अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥ ५ ॥
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते ।देहे त्रितयमेवैतत्पुरुषस्योपजायते ॥ ६ ॥
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् ।धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥ ७ ॥
अर्जुन उवाच ।न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः ।भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥ ८ ॥
स्मरन्ति सुकृतान्येव न वैराणि कृतानि च ।सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥ ९ ॥
भीम उवाच ।इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् ।अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ॥ १० ॥
किं नो विवदितेनेह किं नः क्लेशेन भारत ।अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ॥ ११ ॥
वैशंपायन उवाच ।इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः ।मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ॥ १२ ॥
सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा ।स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् ॥ १३ ॥
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप ।सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥ १४ ॥
भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् ।युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः ॥ १५ ॥
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् ।मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ॥ १६ ॥
निवार्य तं महाबाहुं कोपसंरक्तलोचनम् ।पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥ १७ ॥
« »