Click on words to see what they mean.

कर्ण उवाच ।त्रयः किलेमे अधना भवन्ति दासः शिष्यश्चास्वतन्त्रा च नारी ।दासस्य पत्नी त्वं धनमस्य भद्रे हीनेश्वरा दासधनं च दासी ॥ १ ॥
प्रविश्य सा नः परिचारैर्भजस्व तत्ते कार्यं शिष्टमावेश्य वेश्म ।ईशाः स्म सर्वे तव राजपुत्रि भवन्ति ते धार्तराष्ट्रा न पार्थाः ॥ २ ॥
अन्यं वृणीष्व पतिमाशु भामिनि यस्माद्दास्यं न लभसे देवनेन ।अनवद्या वै पतिषु कामवृत्तिर्नित्यं दास्ये विदितं वै तवास्तु ॥ ३ ॥
पराजितो नकुलो भीमसेनो युधिष्ठिरः सहदेवोऽर्जुनश्च ।दासीभूता प्रविश याज्ञसेनि पराजितास्ते पतयो न सन्ति ॥ ४ ॥
प्रयोजनं चात्मनि किं नु मन्यते पराक्रमं पौरुषं चेह पार्थः ।पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये योऽतिदेवीद्ग्लहेषु ॥ ५ ॥
वैशंपायन उवाच ।तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदार्तरूपः ।राजानुगो धर्मपाशानुबद्धो दहन्निवैनं कोपविरक्तदृष्टिः ॥ ६ ॥
भीम उवाच ।नाहं कुप्ये सूतपुत्रस्य राजन्नेष सत्यं दासधर्मः प्रविष्टः ।किं विद्विषो वाद्य मां धारयेयुर्नादेवीस्त्वं यद्यनया नरेन्द्र ॥ ७ ॥
वैशंपायन उवाच ।राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा ।युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम् ॥ ८ ॥
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने ।प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे ॥ ९ ॥
एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् ।स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ॥ १० ॥
कदलीदण्डसदृशं सर्वलक्षणपूजितम् ।गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥ ११ ॥
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव ।द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥ १२ ॥
वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते ।प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥ १३ ॥
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः ।यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥ १४ ॥
क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः ।वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥ १५ ॥
विदुर उवाच ।परं भयं पश्यत भीमसेनाद्बुध्यध्वं राज्ञो वरुणस्येव पाशात् ।दैवेरितो नूनमयं पुरस्तात्परोऽनयो भरतेषूदपादि ॥ १६ ॥
अतिद्यूतं कृतमिदं धार्तराष्ट्रा येऽस्यां स्त्रियं विवदध्वं सभायाम् ।योगक्षेमो दृश्यते वो महाभयः पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥ १७ ॥
इमं धर्मं कुरवो जानताशु दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत् ।इमां चेत्पूर्वं कितवोऽग्लहीष्यदीशोऽभविष्यदपराजितात्मा ॥ १८ ॥
स्वप्ने यथैतद्धि धनं जितं स्यात्तदेवं मन्ये यस्य दीव्यत्यनीशः ।गान्धारिपुत्रस्य वचो निशम्य धर्मादस्मात्कुरवो मापयात ॥ १९ ॥
दुर्योधन उवाच ।भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव ।युधिष्ठिरं चेत्प्रवदन्त्यनीशमथो दास्यान्मोक्ष्यसे याज्ञसेनि ॥ २० ॥
अर्जुन उवाच ।ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीपुत्रो धर्मराजो महात्मा ।ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव ॥ २१ ॥
वैशंपायन उवाच ।ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे ।तं रासभाः प्रत्यभाषन्त राजन्समन्ततः पक्षिणश्चैव रौद्राः ॥ २२ ॥
तं च शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च ।भीष्मद्रोणौ गौतमश्चापि विद्वान्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ॥ २३ ॥
ततो गान्धारी विदुरश्चैव विद्वांस्तमुत्पातं घोरमालक्ष्य राज्ञे ।निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे ॥ २४ ॥
हतोऽसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुंगवानाम् ।स्त्रियं समाभाषसि दुर्विनीत विशेषतो द्रौपदीं धर्मपत्नीम् ॥ २५ ॥
एवमुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात् ।कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥ २६ ॥
धृतराष्ट्र उवाच ।वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि ।वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ॥ २७ ॥
द्रौपद्युवाच ।ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ ।सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥ २८ ॥
मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः ।एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ॥ २९ ॥
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् ।लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥ ३० ॥
धृतराष्ट्र उवाच ।द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् ।मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥ ३१ ॥
द्रौपद्युवाच ।सरथौ सधनुष्कौ च भीमसेनधनंजयौ ।नकुलं सहदेवं च द्वितीयं वरये वरम् ॥ ३२ ॥
धृतराष्ट्र उवाच ।तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता ।त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥ ३३ ॥
द्रौपद्युवाच ।लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे ।अनर्हा वरमादातुं तृतीयं राजसत्तम ॥ ३४ ॥
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ ।त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥ ३५ ॥
पापीयांस इमे भूत्वा संतीर्णाः पतयो मम ।वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥ ३६ ॥
« »