Click on words to see what they mean.

दुर्योधन उवाच ।आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः ।पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ॥ १ ॥
धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः ।मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ॥ २ ॥
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः ।आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ॥ ३ ॥
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत ।अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥ ४ ॥
बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् ।सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ॥ ५ ॥
सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः ।ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ॥ ६ ॥
दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः ।वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥ ७ ॥
मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ ।आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ॥ ८ ॥
चेकितान उपासङ्गं धनुः काश्य उपाहरत् ।असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥ ९ ॥
अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः ।नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ॥ १० ॥
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः ।जामदग्न्येन सहितास्तथान्ये वेदपारगाः ॥ ११ ॥
अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् ।महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥ १२ ॥
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः ।धनंजयश्च व्यजने भीमसेनश्च पाण्डवः ॥ १३ ॥
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः ।तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ॥ १४ ॥
सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा ।तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ॥ १५ ॥
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् ।उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ॥ १६ ॥
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् ।प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ॥ १७ ॥
प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा ।धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥ १८ ॥
सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः ।विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥ १९ ॥
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् ।शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ॥ २० ॥
नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च ।न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ॥ २१ ॥
यथातिमात्रं कौन्तेयः श्रिया परमया युतः ।राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥ २२ ॥
एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो ।कथं नु जीवितं श्रेयो मम पश्यसि भारत ॥ २३ ॥
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप ।कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत ॥ २४ ॥
एवं दृष्ट्वा नाभिविन्दामि शर्म परीक्षमाणोऽपि कुरुप्रवीर ।तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च ॥ २५ ॥
« »