Click on words to see what they mean.

दुर्योधन उवाच ।दायं तु तस्मै विविधं शृणु मे गदतोऽनघ ।यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् ॥ १ ॥
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ।ये ते कीचकवेणूनां छायां रम्यामुपासते ॥ २ ॥
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः ।पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥ ३ ॥
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः ।जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥ ४ ॥
कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् ।हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥ ५ ॥
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः ।उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥ ६ ॥
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः ।अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥ ७ ॥
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः ।वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ।फलमूलाशना ये च किराताश्चर्मवाससः ॥ ८ ॥
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च ।चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥ ९ ॥
कैरातिकानामयुतं दासीनां च विशां पते ।आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ॥ १० ॥
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् ।बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥ ११ ॥
कायव्या दरदा दार्वाः शूरा वैयमकास्तथा ।औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥ १२ ॥
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः ।शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥ १३ ॥
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह ।वसातयः समौलेयाः सह क्षुद्रकमालवैः ॥ १४ ॥
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते ।अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥ १५ ॥
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः ।आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥ १६ ॥
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः ।दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥ १७ ॥
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् ।कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥ १८ ॥
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् ।शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥ १९ ॥
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् ।क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥ २० ॥
एते चान्ये च बहवो गणा दिग्भ्यः समागताः ।अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥ २१ ॥
राजा चित्ररथो नाम गन्धर्वो वासवानुगः ।शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥ २२ ॥
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् ।आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥ २३ ॥
कृती तु राजा कौरव्य शूकराणां विशां पते ।अददद्गजरत्नानां शतानि सुबहून्यपि ॥ २४ ॥
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् ।कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥ २५ ॥
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् ।अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥ २६ ॥
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप ।बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥ २७ ॥
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश ।दासानामयुतं चैव सदाराणां विशां पते ॥ २८ ॥
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा ।राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥ २९ ॥
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च ।शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥ ३० ॥
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः ।तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥ ३१ ॥
प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः ।उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ।प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ॥ ३२ ॥
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा ।नानादेशसमुत्थैश्च नानाजातिभिरागतैः ।पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥ ३३ ॥
उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् ।शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ॥ ३४ ॥
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत ।येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥ ३५ ॥
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः ।रथानामर्बुदं चापि पादाता बहवस्तथा ॥ ३६ ॥
प्रमीयमाणमारब्धं पच्यमानं तथैव च ।विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥ ३७ ॥
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन ।अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥ ३८ ॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ।सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ॥ ३९ ॥
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् ।भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ ४० ॥
भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् ।अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ॥ ४१ ॥
द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत ।वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥ ४२ ॥
« »