Click on words to see what they mean.

दुर्योधन उवाच ।यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत ।आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥ १ ॥
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् ।फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥ २ ॥
ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् ।प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ॥ ३ ॥
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् ।उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ॥ ४ ॥
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः ।प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः ।त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ ५ ॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् ।एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ॥ ६ ॥
शतं दासीसहस्राणां कार्पासिकनिवासिनाम् ।श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः ।शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥ ७ ॥
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः ।उपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥ ८ ॥
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये ।समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ॥ ९ ॥
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह ।विविधं बलिमादाय रत्नानि विविधानि च ॥ १० ॥
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु ।कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥ ११ ॥
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली ।यवनैः सहितो राजा भगदत्तो महारथः ॥ १२ ॥
आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः ।बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥ १३ ॥
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् ।प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा ॥ १४ ॥
द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान् ।औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् ॥ १५ ॥
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् ।बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥ १६ ॥
इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् ।तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि ॥ १७ ॥
अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् ।जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ॥ १८ ॥
चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः ।वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ॥ १९ ॥
न पारयाम्यभिगतान्विविधान्द्वारि वारितान् ।बल्यर्थं ददतस्तस्य नानारूपाननेकशः ॥ २० ॥
कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः ।आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ॥ २१ ॥
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् ।और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ॥ २२ ॥
कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः ।श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥ २३ ॥
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् ।अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ॥ २४ ॥
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः ।बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥ २५ ॥
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः ।महागमान्दूरगमान्गणितानर्बुदं हयान् ॥ २६ ॥
कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् ।बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ॥ २७ ॥
आसनानि महार्हाणि यानानि शयनानि च ।मणिकाञ्चनचित्राणि गजदन्तमयानि च ॥ २८ ॥
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् ।हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान् ॥ २९ ॥
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः ।नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च ॥ ३० ॥
एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः ।प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥ ३१ ॥
« »