Click on words to see what they mean.

जनमेजय उवाच ।कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् ।यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥ १ ॥
के च तत्र सभास्तारा राजानो ब्रह्मवित्तम ।के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥ २ ॥
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज ।मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ॥ ३ ॥
सूत उवाच ।एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् ।आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् ॥ ४ ॥
वैशंपायन उवाच ।शृणु मे विस्तरेणेमां कथां भरतसत्तम ।भूय एव महाराज यदि ते श्रवणे मतिः ॥ ५ ॥
विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः ।दुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥ ६ ॥
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति ।न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥ ७ ॥
हितं हि परमं मन्ये विदुरो यत्प्रभाषते ।क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥ ८ ॥
देवर्षिर्वासवगुरुर्देवराजाय धीमते ।यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ॥ ९ ॥
तद्वेद विदुरः सर्वं सरहस्यं महाकविः ।स्थितश्च वचने तस्य सदाहमपि पुत्रक ॥ १० ॥
विदुरो वापि मेधावी कुरूणां प्रवरो मतः ।उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ॥ ११ ॥
द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते ।भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥ १२ ॥
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् ।प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् ॥ १३ ॥
अधीतवान्कृती शास्त्रे लालितः सततं गृहे ।भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ॥ १४ ॥
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् ।तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक ॥ १५ ॥
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् ।नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥ १६ ॥
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् ।समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि ॥ १७ ॥
दुर्योधन उवाच ।अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः ।नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥ १८ ॥
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो ।ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ॥ १९ ॥
सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् ।स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ॥ २० ॥
आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः ।कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ॥ २१ ॥
हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा ।अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ॥ २२ ॥
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते ।युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥ २३ ॥
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् ।नादृश्यत परः प्रान्तो नापरस्तत्र भारत ॥ २४ ॥
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः ।प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ॥ २५ ॥
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् ।अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥ २६ ॥
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः ।शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् ॥ २७ ॥
तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् ।सपत्नेनावहासो हि स मां दहति भारत ॥ २८ ॥
पुनश्च तादृशीमेव वापीं जलजशालिनीम् ।मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥ २९ ॥
तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् ।द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥ ३० ॥
क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः ।ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥ ३१ ॥
प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप ।अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ।अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥ ३२ ॥
तत्र मां यमजौ दूरादालोक्य ललितौ किल ।बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥ ३३ ॥
उवाच सहदेवस्तु तत्र मां विस्मयन्निव ।इदं द्वारमितो गच्छ राजन्निति पुनः पुनः ॥ ३४ ॥
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे ।यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥ ३५ ॥
« »