Click on words to see what they mean.

वैशंपायन उवाच ।अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम् ।युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः ॥ १ ॥
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् ।प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥ २ ॥
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् ।उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥ ३ ॥
दुर्योधनो महाराज विवर्णो हरिणः कृशः ।दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ ॥ ४ ॥
न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम् ।ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे ॥ ५ ॥
धृतराष्ट्र उवाच ।दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक ।श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ॥ ६ ॥
अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् ।चिन्तयंश्च न पश्यामि शोकस्य तव संभवम् ॥ ७ ॥
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम् ।भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ॥ ८ ॥
आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।आजानेया वहन्ति त्वां केनासि हरिणः कृशः ॥ ९ ॥
शयनानि महार्हाणि योषितश्च मनोरमाः ।गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ॥ १० ॥
देवानामिव ते सर्वं वाचि बद्धं न संशयः ।स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक ॥ ११ ॥
दुर्योधन उवाच ।अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा ।अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् ॥ १२ ॥
अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः ।क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥ १३ ॥
संतोषो वै श्रियं हन्ति अभिमानश्च भारत ।अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥ १४ ॥
न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे ।ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम ॥ १५ ॥
सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च ।अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् ।तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः ॥ १६ ॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥ १७ ॥
दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् ।भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ १८ ॥
कदलीमृगमोकानि कृष्णश्यामारुणानि च ।काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ॥ १९ ॥
रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः ।त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ॥ २० ॥
पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते ।आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥ २१ ॥
न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः ।यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥ २२ ॥
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप ।शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो ॥ २३ ॥
ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः ।त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ २४ ॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् ।एवं बलिं समादाय प्रवेशं लेभिरे ततः ॥ २५ ॥
यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः ।तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥ २६ ॥
शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् ।दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ॥ २७ ॥
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ ।तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ ॥ २८ ॥
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ।इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥ २९ ॥
पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् ।स्थापिता तत्र संज्ञाभूच्छङ्खो ध्मायति नित्यशः ॥ ३० ॥
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत ।उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥ ३१ ॥
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः ।सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ॥ ३२ ॥
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः ।वैश्या इव महीपाला द्विजातिपरिवेषकाः ॥ ३३ ॥
न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा ।गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥ ३४ ॥
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् ।शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥ ३५ ॥
शकुनिरुवाच ।यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे ।तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥ ३६ ॥
अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत ।हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥ ३७ ॥
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् ।आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् ॥ ३८ ॥
वैशंपायन उवाच ।एवमुक्तः शकुनिना राजा दुर्योधनस्तदा ।धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥ ३९ ॥
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् ।द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥ ४० ॥
धृतराष्ट्र उवाच ।क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने ।तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ ४१ ॥
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् ।उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥ ४२ ॥
दुर्योधन उवाच ।निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति ।निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥ ४३ ॥
स मयि त्वं मृते राजन्विदुरेण सुखी भव ।भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ॥ ४४ ॥
वैशंपायन उवाच ।आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः ।धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः ॥ ४५ ॥
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम ।मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः ॥ ४६ ॥
ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः ।सुकृतां सुप्रवेशां च निवेदयत मे शनैः ॥ ४७ ॥
दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः ।धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ॥ ४८ ॥
अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः ।द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥ ४९ ॥
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् ।विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ॥ ५० ॥
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् ।मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥ ५१ ॥
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो ।पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु ॥ ५२ ॥
धृतराष्ट्र उवाच ।क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति ।दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥ ५३ ॥
अशुभं वा शुभं वापि हितं वा यदि वाहितम् ।प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः ॥ ५४ ॥
मयि संनिहिते चैव भीष्मे च भरतर्षभे ।अनयो दैवविहितो न कथंचिद्भविष्यति ॥ ५५ ॥
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे ।खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ॥ ५६ ॥
न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते ।दैवमेव परं मन्ये येनैतदुपपद्यते ॥ ५७ ॥
इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् ।आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः ॥ ५८ ॥
« »