Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्त्वा ततो भीष्मो विरराम महायशाः ।व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥ १ ॥
केशवं केशिहन्तारमप्रमेयपराक्रमम् ।पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥ २ ॥
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् ।एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥ ३ ॥
मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् ।अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः ॥ ४ ॥
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ।मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ॥ ५ ॥
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि ।अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति ॥ ६ ॥
आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः ।सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ॥ ७ ॥
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः ।संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास्तथा ॥ ८ ॥
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् ।अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ॥ ९ ॥
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ ।आमिषादपकृष्टानां सिंहानामिव गर्जताम् ॥ १० ॥
तं बलौघमपर्यन्तं राजसागरमक्षयम् ।कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥ ११ ॥
पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः ।सहदेवो नृणां देवः समापयत कर्म तत् ॥ १२ ॥
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः ।अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥ १३ ॥
स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम् ।युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् ॥ १४ ॥
इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवः ।यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ॥ १५ ॥
« »