Click on words to see what they mean.

वैशंपायन उवाच ।अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् ।आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् ॥ १ ॥
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति ।यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया ।कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति ॥ २ ॥
सभायां सत्यसंधस्य यदासीद्वृषपर्वणः ।आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ॥ ३ ॥
ततः सभां करिष्यामि पाण्डवाय यशस्विने ।मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ॥ ४ ॥
अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह ।निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ।सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥ ५ ॥
सा वै शतसहस्रस्य संमिता सर्वघातिनी ।अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥ ६ ॥
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् ।सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ।इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् ॥ ७ ॥
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति ।हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः ॥ ८ ॥
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥ ९ ॥
यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना ।आहृताः क्रतवो मुख्याः शतं भरतसत्तम ॥ १० ॥
यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः ।शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ॥ ११ ॥
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः ।यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः ।उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः ॥ १२ ॥
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः ।उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ १३ ॥
यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः ।श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये ॥ १४ ॥
सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः ।ददौ यत्र सहस्राणि प्रयुतानि च केशवः ॥ १५ ॥
तत्र गत्वा स जग्राह गदां शङ्खं च भारत ।स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ।किंकरैः सह रक्षोभिरगृह्णात्सर्वमेव तत् ॥ १६ ॥
तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् ।विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥ १७ ॥
गदां च भीमसेनाय प्रवरां प्रददौ तदा ।देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् ॥ १८ ॥
सभा तु सा महाराज शातकुम्भमयद्रुमा ।दश किष्कुसहस्राणि समन्तादायताभवत् ॥ १९ ॥
यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा ।भ्राजमाना तथा दिव्या बभार परमं वपुः ॥ २० ॥
प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् ।प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ॥ २१ ॥
नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता ।आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा ॥ २२ ॥
उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी ।बहुरत्ना बहुधना सुकृता विश्वकर्मणा ॥ २३ ॥
न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी ।आसीद्रूपेण संपन्ना यां चक्रेऽप्रतिमां मयः ॥ २४ ॥
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च ।सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः ॥ २५ ॥
अन्तरिक्षचरा घोरा महाकाया महाबलाः ।रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥ २६ ॥
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः ।वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥ २७ ॥
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् ।पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् ॥ २८ ॥
सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् ।मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् ॥ २९ ॥
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः ।दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥ ३० ॥
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः ।आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः ॥ ३१ ॥
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः ।हंसकारण्डवयुताश्चक्रवाकोपशोभिताः ॥ ३२ ॥
जलजानां च माल्यानां स्थलजानां च सर्वशः ।मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥ ३३ ॥
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः ।निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् ॥ ३४ ॥
« »