Click on words to see what they mean.

वैशंपायन उवाच ।तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः ।प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥ १ ॥
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् ।तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ॥ २ ॥
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः ।तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ॥ ३ ॥
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् ।कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ॥ ४ ॥
मृदङ्गवरनादेन रथनेमिस्वनेन च ।हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥ ५ ॥
ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा ।निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ॥ ६ ॥
सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः ।न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥ ७ ॥
सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः ।उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ॥ ८ ॥
स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ ।सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥ ९ ॥
मोदापुरं वामदेवं सुदामानं सुसंकुलम् ।कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥ १० ॥
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् ।व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः ॥ ११ ॥
स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् ।बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥ १२ ॥
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् ।अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ॥ १३ ॥
विजित्य चाहवे शूरान्पार्वतीयान्महारथान् ।ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ॥ १४ ॥
पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः ।गणानुत्सवसंकेतानजयत्सप्त पाण्डवः ॥ १५ ॥
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः ।व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥ १६ ॥
ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये ।क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥ १७ ॥
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः ।उरशावासिनं चैव रोचमानं रणेऽजयत् ॥ १८ ॥
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् ।प्रामथद्बलमास्थाय पाकशासनिराहवे ॥ १९ ॥
ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः ।सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥ २० ॥
ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः ।महता परिमर्देन वशे चक्रे दुरासदान् ॥ २१ ॥
गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः ।दरदान्सह काम्बोजैरजयत्पाकशासनिः ॥ २२ ॥
प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः ।निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥ २३ ॥
लोहान्परमकाम्बोजानृषिकानुत्तरानपि ।सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥ २४ ॥
ऋषिकेषु तु संग्रामो बभूवातिभयंकरः ।तारकामयसंकाशः परमर्षिकपार्थयोः ॥ २५ ॥
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि ।शुकोदरसमप्रख्यान्हयानष्टौ समानयत् ।मयूरसदृशानन्यानुभयानेव चापरान् ॥ २६ ॥
स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम् ।श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ॥ २७ ॥
« »