Click on words to see what they mean.

वैशंपायन उवाच ।भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् ।बुद्धिमास्थाय विपुलां जरासंधजिघांसया ॥ १ ॥
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् ।प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा ॥ २ ॥
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् ।त्वरयन्पुरुषव्याघ्रो जरासंधवधेप्सया ॥ ३ ॥
यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः ।बलं भीम जरासंधे दर्शयाशु तदद्य नः ॥ ४ ॥
एवमुक्तस्तदा भीमो जरासंधमरिंदमः ।उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः ॥ ५ ॥
भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ ।बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च ॥ ६ ॥
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः ।अभवत्तुमुलो नादः सर्वप्राणिभयंकरः ॥ ७ ॥
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः ।भीमसेनस्य नादेन जरासंधस्य चैव ह ॥ ८ ॥
किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही ।इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् ॥ ९ ॥
ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम् ।रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः ॥ १० ॥
जरासंधरथं कृष्णो योजयित्वा पताकिनम् ।आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ॥ ११ ॥
ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः ।राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् ॥ १२ ॥
अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः ।रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ॥ १३ ॥
यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः ।अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः ॥ १४ ॥
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः ।शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ॥ १५ ॥
शक्रविष्णू हि संग्रामे चेरतुस्तारकामये ।रथेन तेन तं कृष्ण उपारुह्य ययौ तदा ॥ १६ ॥
तप्तचामीकराभेण किङ्किणीजालमालिना ।मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ॥ १७ ॥
येन शक्रो दानवानां जघान नवतीर्नव ।तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः ॥ १८ ॥
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा ।रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥ १९ ॥
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे ।अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥ २० ॥
असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः ।योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ॥ २१ ॥
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् ।क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः ॥ २२ ॥
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः ।तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः ॥ २३ ॥
दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ ।आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥ २४ ॥
न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते ।दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः ॥ २५ ॥
तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् ।निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥ २६ ॥
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः ।बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् ॥ २७ ॥
स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः ।गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः ॥ २८ ॥
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा ।ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ॥ २९ ॥
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् ।पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः ॥ ३० ॥
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन ।भीमार्जुनबलोपेते धर्मस्य परिपालनम् ॥ ३१ ॥
जरासंधह्रदे घोरे दुःखपङ्के निमज्जताम् ।राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते ॥ ३२ ॥
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे ।दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम ॥ ३३ ॥
किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ ।कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् ॥ ३४ ॥
तानुवाच हृषीकेशः समाश्वास्य महामनाः ।युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति ॥ ३५ ॥
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति ॥ ३६ ॥
ततः प्रतीतमनसस्ते नृपा भरतर्षभ ।तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् ॥ ३७ ॥
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः ।कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया ॥ ३८ ॥
जरासंधात्मजश्चैव सहदेवो महारथः ।निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ॥ ३९ ॥
स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः ।सहदेवो नृणां देवं वासुदेवमुपस्थितः ॥ ४० ॥
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा ।अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा ॥ ४१ ॥
गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः ।विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् ॥ ४२ ॥
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन् ।रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः ॥ ४३ ॥
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः ।समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ॥ ४४ ॥
दिष्ट्या भीमेन बलवाञ्जरासंधो निपातितः ।राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ॥ ४५ ॥
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ ।पुनः स्वनगरं प्राप्तावक्षताविति भारत ॥ ४६ ॥
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः ।भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ॥ ४७ ॥
ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम् ।अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ॥ ४८ ॥
यथावयः समागम्य राजभिस्तैश्च पाण्डवः ।सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ॥ ४९ ॥
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः ।जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ॥ ५० ॥
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः ।पाण्डवैर्घातयामास जरासंधमरिं तदा ॥ ५१ ॥
घातयित्वा जरासंधं बुद्धिपूर्वमरिंदमः ।धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ॥ ५२ ॥
सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा ।धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ॥ ५३ ॥
तेनैव रथमुख्येन तरुणादित्यवर्चसा ।धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ॥ ५४ ॥
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ ।प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ॥ ५५ ॥
ततो गते भगवति कृष्णे देवकिनन्दने ।जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा ॥ ५६ ॥
संवर्धितौजसो भूयः कर्मणा तेन भारत ।द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ॥ ५७ ॥
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् ।तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् ॥ ५८ ॥
« »