Click on words to see what they mean.

वासुदेव उवाच ।जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च ।या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥ १ ॥
न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा ।न चापि कंचिदमरमयुद्धेनापि शुश्रुमः ॥ २ ॥
एतावदेव पुरुषैः कार्यं हृदयतोषणम् ।नयेन विधिदृष्टेन यदुपक्रमते परान् ॥ ३ ॥
सुनयस्यानपायस्य संयुगे परमः क्रमः ।संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः ॥ ४ ॥
ते वयं नयमास्थाय शत्रुदेहसमीपगाः ।कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ।पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥ ५ ॥
व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् ।इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥ ६ ॥
अनवद्या ह्यसंबुद्धाः प्रविष्टाः शत्रुसद्म तत् ।शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे ॥ ७ ॥
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ ।अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः ॥ ८ ॥
अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः ।प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥ ९ ॥
युधिष्ठिर उवाच ।कृष्ण कोऽयं जरासंधः किंवीर्यः किंपराक्रमः ।यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा ॥ १० ॥
कृष्ण उवाच ।शृणु राजञ्जरासंधो यद्वीर्यो यत्पराक्रमः ।यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥ ११ ॥
अक्षौहिणीनां तिसृणामासीत्समरदर्पितः ।राजा बृहद्रथो नाम मगधाधिपतिः पतिः ॥ १२ ॥
रूपवान्वीर्यसंपन्नः श्रीमानतुलविक्रमः ।नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः ॥ १३ ॥
तेजसा सूर्यसदृशः क्षमया पृथिवीसमः ।यमान्तकसमः कोपे श्रिया वैश्रवणोपमः ॥ १४ ॥
तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम ।व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ १५ ॥
स काशिराजस्य सुते यमजे भरतर्षभ ।उपयेमे महावीर्यो रूपद्रविणसंमते ॥ १६ ॥
तयोश्चकार समयं मिथः स पुरुषर्षभः ।नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा ॥ १७ ॥
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप ।प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः ॥ १८ ॥
तयोर्मध्यगतश्चापि रराज वसुधाधिपः ।गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ॥ १९ ॥
विषयेषु निमग्नस्य तस्य यौवनमत्यगात् ।न च वंशकरः पुत्रस्तस्याजायत कश्चन ॥ २० ॥
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः ।नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ॥ २१ ॥
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः ।शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् ॥ २२ ॥
यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् ।पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् ॥ २३ ॥
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः ।परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत ॥ २४ ॥
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः ।पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा ॥ २५ ॥
बृहद्रथ उवाच ।भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् ।किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥ २६ ॥
कृष्ण उवाच ।एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः ।तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् ॥ २७ ॥
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह ।अवातमशुकादष्टमेकमाम्रफलं किल ॥ २८ ॥
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च ।राज्ञे ददावप्रतिमं पुत्रसंप्राप्तिकारकम् ॥ २९ ॥
उवाच च महाप्राज्ञस्तं राजानं महामुनिः ।गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप ॥ ३० ॥
यथासमयमाज्ञाय तदा स नृपसत्तमः ।द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥ ३१ ॥
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे ।भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः ॥ ३२ ॥
तयोः समभवद्गर्भः फलप्राशनसंभवः ।ते च दृष्ट्वा नरपतिः परां मुदमवाप ह ॥ ३३ ॥
अथ काले महाप्राज्ञ यथासमयमागते ।प्रजायेतामुभे राजञ्शरीरशकले तदा ॥ ३४ ॥
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे ।दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् ॥ ३५ ॥
उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले ।सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥ ३६ ॥
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे ।निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः ॥ ३७ ॥
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी ।जग्राह मनुजव्याघ्र मांसशोणितभोजना ॥ ३८ ॥
कर्तुकामा सुखवहे शकले सा तु राक्षसी ।संघट्टयामास तदा विधानबलचोदिता ॥ ३९ ॥
ते समानीतमात्रे तु शकले पुरुषर्षभ ।एकमूर्तिकृते वीरः कुमारः समपद्यत ॥ ४० ॥
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना ।न शशाक समुद्वोढुं वज्रसारमयं शिशुम् ॥ ४१ ॥
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः ।प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः ॥ ४२ ॥
तेन शब्देन संभ्रान्तः सहसान्तःपुरे जनः ।निर्जगाम नरव्याघ्र राज्ञा सह परंतप ॥ ४३ ॥
ते चाबले परिग्लाने पयःपूर्णपयोधरे ।निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् ॥ ४४ ॥
अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् ।तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥ ४५ ॥
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः ।बालं पुत्रमुपादातुं मेघलेखेव भास्करम् ॥ ४६ ॥
सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् ।बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् ॥ ४७ ॥
तव पत्नीद्वये जातो द्विजातिवरशासनात् ।धात्रीजनपरित्यक्तो मयायं परिरक्षितः ॥ ४८ ॥
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे ।तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् ॥ ४९ ॥
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च ।अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् ॥ ५० ॥
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी ।कामया ब्रूहि कल्याणि देवता प्रतिभासि मे ॥ ५१ ॥
« »