Click on words to see what they mean.

जनमेजय उवाच ।स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः ।पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ १ ॥
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः ।महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥ २ ॥
वैशंपायन उवाच ।स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः ।युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥ ३ ॥
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः ।दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥ ४ ॥
भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम् ।देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ ५ ॥
ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः ।सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥ ६ ॥
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै ।सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना ॥ ७ ॥
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा ।हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने ॥ ८ ॥
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी ।परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ ॥ ९ ॥
स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् ।तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥ १० ॥
मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव ।स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ॥ ११ ॥
युधिष्ठिर महाबाहो मैवं वोचः कथंचन ।दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥ १२ ॥
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह ।सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः ॥ १३ ॥
वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम् ।यूयं सर्वे सुरसमा येन युद्धे समासिताः ॥ १४ ॥
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् ।भये महति योऽभीतो बभूव पृथिवीपतिः ॥ १५ ॥
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् ।द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि ॥ १६ ॥
ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः ।संग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि ॥ १७ ॥
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै ।स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ॥ १८ ॥
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः ।भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥ १९ ॥
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः ।अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥ २० ॥
यत्कृते पृथिवी नष्टा सहया सरथद्विपा ।वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥ २१ ॥
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः ।सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ॥ २२ ॥
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् ।कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम् ॥ २३ ॥
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् ।ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ॥ २४ ॥
क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद ।विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ॥ २५ ॥
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः ।अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ २६ ॥
« »