Click on words to see what they mean.

धृतराष्ट्र उवाच ।स्पृश मां पाणिना भूयः परिष्वज च पाण्डव ।जीवामीव हि संस्पर्शात्तव राजीवलोचन ॥ १ ॥
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप ।पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम ॥ २ ॥
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे ।येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् ॥ ३ ॥
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता ।ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम् ॥ ४ ॥
तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो ।लब्ध्वा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह ॥ ५ ॥
वैशंपायन उवाच ।एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत ।पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा ॥ ६ ॥
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः ।बाहुभ्यां संपरिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् ॥ ७ ॥
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् ।अतिदुःखाच्च राजानं नोचुः किंचन पाण्डवाः ॥ ८ ॥
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् ।दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत् ॥ ९ ॥
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः ।नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन् ॥ १० ॥
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् ।अनुजानीहि मां राजंस्तापस्ये भरतर्षभ ॥ ११ ॥
ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः ।न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि ॥ १२ ॥
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् ।सर्वेषामवरोधानामार्तनादो महानभूत् ॥ १३ ॥
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् ।उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ॥ १४ ॥
धर्मपुत्रः स पितरं परिष्वज्य महाभुजः ।शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् ॥ १५ ॥
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा ।यथा तव प्रियं राजंश्चिकीर्षामि परंतप ॥ १६ ॥
यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा ।क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् ॥ १७ ॥
ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः ।अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ॥ १८ ॥
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् ।ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् ॥ १९ ॥
« »