Click on words to see what they mean.

युधिष्ठिर उवाच ।न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप ।धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ॥ १ ॥
योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप ।यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह ॥ २ ॥
अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना ।विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः ॥ ३ ॥
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा ।यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् ॥ ४ ॥
पीडितं चापि जानामि राज्यमात्मानमेव च ।अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर ॥ ५ ॥
भवान्पिता भवान्माता भवान्नः परमो गुरुः ।भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् ॥ ६ ॥
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम ।अस्तु राजा महाराज यं चान्यं मन्यते भवान् ॥ ७ ॥
अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम् ।न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि ॥ ८ ॥
नाहं राजा भवान्राजा भवता परवानहम् ।कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ॥ ९ ॥
न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ ।भवितव्यं तथा तद्धि वयं ते चैव मोहिताः ॥ १० ॥
वयं हि पुत्रा भवतो यथा दुर्योधनादयः ।गान्धारी चैव कुन्ती च निर्विशेषे मते मम ॥ ११ ॥
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि ।पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे ॥ १२ ॥
इयं हि वसुसंपूर्णा मही सागरमेखला ।भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ॥ १३ ॥
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये ।त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ॥ १४ ॥
भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप ।दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् ॥ १५ ॥
धृतराष्ट्र उवाच ।तापस्ये मे मनस्तात वर्तते कुरुनन्दन ।उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो ॥ १६ ॥
चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया ।वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप ॥ १७ ॥
वैशंपायन उवाच ।इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् ।उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः ॥ १८ ॥
संजयं च महामात्रं कृपं चापि महारथम् ।अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् ॥ १९ ॥
ग्लायते मे मनो हीदं मुखं च परिशुष्यति ।वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि ॥ २० ॥
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः ।गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् ॥ २१ ॥
तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् ।आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा ॥ २२ ॥
युधिष्ठिर उवाच ।यस्य नागसहस्रेण दशसंख्येन वै बलम् ।सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत् ॥ २३ ॥
आयसी प्रतिमा येन भीमसेनस्य वै पुरा ।चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् ॥ २४ ॥
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् ।यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ॥ २५ ॥
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम ।यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ॥ २६ ॥
वैशंपायन उवाच ।ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः ।उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ॥ २७ ॥
तेन रत्नौषधिमता पुण्येन च सुगन्धिना ।पाणिस्पर्शेन राज्ञस्तु राजा संज्ञामवाप ह ॥ २८ ॥
« »