Click on words to see what they mean.

धृतराष्ट्र उवाच ।विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः ।ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥ १ ॥
योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् ।दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् ॥ २ ॥
यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् ।वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ॥ ३ ॥
पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः ।विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च ॥ ४ ॥
पदे पदे भगवता व्यासेन च महात्मना ।संजयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् ॥ ५ ॥
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु ।न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् ॥ ६ ॥
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः ।एतच्छ्रेयः स परमममन्यत जनार्दनः ॥ ७ ॥
सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा ।हृदये शल्यभूतानि धारयामि सहस्रशः ॥ ८ ॥
विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै ।अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः ॥ ९ ॥
चतुर्थे नियते काले कदाचिदपि चाष्टमे ।तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ॥ १० ॥
करोत्याहारमिति मां सर्वः परिजनः सदा ।युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः ॥ ११ ॥
भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः ।नियमव्यपदेशेन गान्धारी च यशस्विनी ॥ १२ ॥
हतं पुत्रशतं शूरं संग्रामेष्वपलायिनम् ।नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः ।इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ॥ १३ ॥
भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे ।सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः ॥ १४ ॥
महादानानि दत्तानि श्राद्धानि च पुनः पुनः ।प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् ।गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥ १५ ॥
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः ।समतीता नृशंसास्ते धर्मेण निहता युधि ॥ १६ ॥
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन ।सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः ॥ १७ ॥
आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे ।गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥ १८ ॥
त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः ।राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ॥ १९ ॥
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् ।चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ।तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः ॥ २० ॥
उचितं नः कुले तात सर्वेषां भरतर्षभ ।पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप ॥ २१ ॥
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् ।पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥ २२ ॥
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि ।फलभाजो हि राजानः कल्याणस्येतरस्य वा ॥ २३ ॥
« »