Click on words to see what they mean.

वैशंपायन उवाच ।ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् ।विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥ १ ॥
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् ।संप्रीतमनसः सर्वे देवलोक इवामराः ॥ २ ॥
पुत्रः पित्रा च मात्रा च भार्या च पतिना सह ।भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः ॥ ३ ॥
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च ।संप्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः ॥ ४ ॥
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः ।समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् ॥ ५ ॥
ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः ।असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ॥ ६ ॥
एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा ।पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः ॥ ७ ॥
तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः ।मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ॥ ८ ॥
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् ।परस्परं समागम्य योधानां भरतर्षभ ॥ ९ ॥
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः ।मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥ १० ॥
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः ।आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् ॥ ११ ॥
ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः ।क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥ १२ ॥
अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् ।सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे ॥ १३ ॥
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा ।केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥ १४ ॥
तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः ।राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥ १५ ॥
विचित्रगतयः सर्वे या अवाप्यामरैः सह ।आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥ १६ ॥
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः ।धर्मशीलो महातेजाः कुरूणां हितकृत्सदा ।ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः ॥ १७ ॥
या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः ।ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥ १८ ॥
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः ।श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥ १९ ॥
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह ।समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते ॥ २० ॥
एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः ।प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥ २१ ॥
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः ।दिव्यमाल्याम्बरधरा यथासां पतयस्तथा ॥ २२ ॥
ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः ।सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे ॥ २३ ॥
यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा ।तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥ २४ ॥
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः ।जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि ॥ २५ ॥
प्रियैः समागमं तेषां य इमं शृणुयान्नरः ।प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह ॥ २६ ॥
इष्टबान्धवसंयोगमनायासमनामयम् ।य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् ॥ २७ ॥
स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत ।अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः ।श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् ॥ २८ ॥
« »