Click on words to see what they mean.

वैशंपायन उवाच ।एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् ।शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत ॥ १ ॥
तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः ।विचित्रपदसंचारा नानाश्रुतिभिरन्विताः ॥ २ ॥
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा ।उत्सृज्य सुमहार्हाणि शयनानि नराधिप ॥ ३ ॥
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः ।तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥ ४ ॥
व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः ।भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् ॥ ५ ॥
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः ।यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥ ६ ॥
ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः ।कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥ ७ ॥
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि ।ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ॥ ८ ॥
मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः ।अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥ ९ ॥
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः ।कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ॥ १० ॥
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलंकृतम् ।फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ॥ ११ ॥
ततः स राजा प्रददौ तापसार्थमुपाहृतान् ।कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥ १२ ॥
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः ।कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ॥ १३ ॥
भाजनानि च लौहानि पात्रीश्च विविधा नृप ।यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥ १४ ॥
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् ।वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥ १५ ॥
कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् ।ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥ १६ ॥
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् ।कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ॥ १७ ॥
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः ।निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ॥ १८ ॥
भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् ।अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया ॥ १९ ॥
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः ।बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥ २० ॥
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः ।शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥ २१ ॥
व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः ।वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ॥ २२ ॥
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् ।भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ॥ २३ ॥
समागतस्ततो व्यासः शतयूपादिभिर्वृतः ।धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥ २४ ॥
नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् ।प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥ २५ ॥
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः ।द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥ २६ ॥
« »