Click on words to see what they mean.

धृतराष्ट्र उवाच ।युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि ।सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥ १ ॥
ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः ।सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो ॥ २ ॥
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् ।कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते ॥ ३ ॥
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः ।ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥ ४ ॥
कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ ।शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा ॥ ५ ॥
कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः ।अतिथींश्चान्नपानेन कच्चिदर्चसि भारत ॥ ६ ॥
कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव ।क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः ॥ ७ ॥
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते ।जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥ ८ ॥
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् ।यथोचितं महाराज यशसा नावसीदति ॥ ९ ॥
वैशंपायन उवाच ।इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत ।कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि ॥ १० ॥
कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते ।अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ।अप्यस्याः सफलो राजन्वनवासो भविष्यति ॥ ११ ॥
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता ।घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥ १२ ॥
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् ।नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥ १३ ॥
क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम् ।संजयः कुशली चायं कच्चिन्नु तपसि स्थितः ॥ १४ ॥
इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् ।कुशली विदुरः पुत्र तपो घोरं समास्थितः ॥ १५ ॥
वायुभक्षो निराहारः कृशो धमनिसंततः ।कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥ १६ ॥
इत्येवं वदतस्तस्य जटी वीटामुखः कृशः ।दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥ १७ ॥
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः ।निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति ॥ १८ ॥
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः ।प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ॥ १९ ॥
भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः ।इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥ २० ॥
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः ।विदुरो वृक्षमाश्रित्य कंचित्तत्र वनान्तरे ॥ २१ ॥
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् ।अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥ २२ ॥
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः ।विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया ॥ २३ ॥
ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत ।संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥ २४ ॥
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह ।प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥ २५ ॥
स योगबलमास्थाय विवेश नृपतेस्तनुम् ।विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥ २६ ॥
विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् ।वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥ २७ ॥
बलवन्तं तथात्मानं मेने बहुगुणं तदा ।धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥ २८ ॥
पौराणमात्मनः सर्वं विद्यावान्स विशां पते ।योगधर्मं महातेजा व्यासेन कथितं यथा ॥ २९ ॥
धर्मराजस्तु तत्रैनं संचस्कारयिषुस्तदा ।दग्धुकामोऽभवद्विद्वानथ वै वागभाषत ॥ ३० ॥
भो भो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम् ।कलेवरमिहैतत्ते धर्म एष सनातनः ॥ ३१ ॥
लोकाः संतानका नाम भविष्यन्त्यस्य पार्थिव ।यतिधर्ममवाप्तोऽसौ नैव शोच्यः परंतप ॥ ३२ ॥
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः ।राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥ ३३ ॥
ततः स राजा द्युतिमान्स च सर्वो जनस्तदा ।भीमसेनादयश्चैव परं विस्मयमागताः ॥ ३४ ॥
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् ।आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥ ३५ ॥
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः ।इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् ।फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ॥ ३६ ॥
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः ।तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः ॥ ३७ ॥
« »