Click on words to see what they mean.

वैशंपायन उवाच ।ततस्ते पाण्डवा दूरादवतीर्य पदातयः ।अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥ १ ॥
स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः ।स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥ २ ॥
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः ।शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥ ३ ॥
ततस्तत्र समाजग्मुस्तापसा विविधव्रताः ।पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ॥ ४ ॥
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् ।पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥ ५ ॥
तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् ।पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ॥ ६ ॥
तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा ।ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ॥ ७ ॥
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः ।सहदेवस्तु वेगेन प्राधावद्येन सा पृथा ॥ ८ ॥
सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् ।सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् ॥ ९ ॥
बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम् ।गान्धार्याः कथयामास सहदेवमुपस्थितम् ॥ १० ॥
अनन्तरं च राजानं भीमसेनमथार्जुनम् ।नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥ ११ ॥
सा ह्यग्रेऽगच्छत तयोर्दंपत्योर्हतपुत्रयोः ।कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ॥ १२ ॥
तान्राजा स्वरयोगेन स्पर्शेन च महामनाः ।प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥ १३ ॥
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् ।उपतस्थुर्महात्मानो मातरं च यथाविधि ॥ १४ ॥
सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा ।पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः ॥ १५ ॥
ततो नार्यो नृसिंहानां स च योधजनस्तदा ।पौरजानपदाश्चैव ददृशुस्तं नराधिपम् ॥ १६ ॥
निवेदयामास तदा जनं तं नामगोत्रतः ।युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् ॥ १७ ॥
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः ।राजात्मानं गृहगतं पुरेव गजसाह्वये ॥ १८ ॥
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः ।गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥ १९ ॥
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् ।दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ॥ २० ॥
« »