Click on words to see what they mean.

वैशंपायन उवाच ।विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः ।प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा ॥ १ ॥
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् ।पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ॥ २ ॥
कारयित्वान्नपानानि यानान्याच्छादनानि च ।सुवर्णमणिरत्नानि दासीदासपरिच्छदान् ॥ ३ ॥
कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम् ।अलंकारान्गजानश्वान्कन्याश्चैव वरस्त्रियः ।आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः ॥ ४ ॥
द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् ।दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् ।जयद्रथपुरोगांश्च सुहृदश्चैव सर्वशः ॥ ५ ॥
स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः ।अनेकधनरत्नौघो युधिष्ठिरमते तदा ॥ ६ ॥
अनिशं यत्र पुरुषा गणका लेखकास्तथा ।युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम् ॥ ७ ॥
आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति ।तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते ॥ ८ ॥
शते देये दशशतं सहस्रे चायुतं तथा ।दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ॥ ९ ॥
एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः ।तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः ॥ १० ॥
ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः ।अन्नपानरसौघेन प्लावयामास पार्थिवः ॥ ११ ॥
सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः ।गवाश्वमकरावर्तो नारीरत्नमहाकरः ॥ १२ ॥
ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः ।जगत्संप्लावयामास धृतराष्ट्रदयाम्बुधिः ॥ १३ ॥
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा ।गान्धार्याश्च महाराज प्रददावौर्ध्वदेहिकम् ॥ १४ ॥
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः ।ततो निर्वर्तयामास दानयज्ञं कुरूद्वहः ॥ १५ ॥
एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम् ।नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ॥ १६ ॥
दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः ।बभूव पुत्रपौत्राणामनृणो भरतर्षभ ॥ १७ ॥
« »