Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तास्तु ते तेन पौरजानपदा जनाः ।वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् ॥ १ ॥
तूष्णींभूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः ।धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥ २ ॥
वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया ।विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥ ३ ॥
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै ।वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ॥ ४ ॥
सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः ।गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥ ५ ॥
श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते ।रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ॥ ६ ॥
उत्तरीयैः करैश्चापि संछाद्य वदनानि ते ।रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् ॥ ७ ॥
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् ।दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् ॥ ८ ॥
ते विनीय तमायासं कुरुराजवियोगजम् ।शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ॥ ९ ॥
ततः संधाय ते सर्वे वाक्यान्यथ समासतः ।एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् ॥ १० ॥
ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः ।साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥ ११ ॥
अनुमान्य महाराजं तत्सदः संप्रभाष्य च ।विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥ १२ ॥
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् ।वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥ १३ ॥
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो ।नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम् ॥ १४ ॥
न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन ।राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ॥ १५ ॥
पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः ।न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप ॥ १६ ॥
यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः ।तथा कुरु महाराज स हि नः परमो गुरुः ॥ १७ ॥
त्यक्ता वयं तु भवता दुःखशोकपरायणाः ।भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥ १८ ॥
यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च ।भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ॥ १९ ॥
भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता ।तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ॥ २० ॥
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप ।पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ।वयमास्म यथा सम्यग्भवतो विदितं तथा ॥ २१ ॥
तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता ।पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥ २२ ॥
राजर्षीणां पुराणानां भवतां वंशधारिणाम् ।कुरुसंवरणादीनां भरतस्य च धीमतः ॥ २३ ॥
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः ।नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥ २४ ॥
उषिताः स्म सुखं नित्यं भवता परिपालिताः ।सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥ २५ ॥
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति ।भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥ २६ ॥
« »