Click on words to see what they mean.

युधिष्ठिर उवाच ।एवमेतत्करिष्यामि यथात्थ पृथिवीपते ।भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ ॥ १ ॥
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने ।विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति ॥ २ ॥
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः ।कर्तास्म्येतन्महीपाल निर्वृतो भव भारत ॥ ३ ॥
वैशंपायन उवाच ।एवमुक्तः स राजर्षिर्धर्मराजेन धीमता ।कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ॥ ४ ॥
पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः ।इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ॥ ५ ॥
तमासनगतं देवी गान्धारी धर्मचारिणी ।उवाच काले कालज्ञा प्रजापतिसमं पतिम् ॥ ६ ॥
अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा ।युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि ॥ ७ ॥
धृतराष्ट्र उवाच ।गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना ।युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ॥ ८ ॥
अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् ।पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु ।सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि ॥ ९ ॥
वैशंपायन उवाच ।इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः ।स च तद्वचनात्सर्वं समानिन्ये महीपतिः ॥ १० ॥
ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा ।सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा ।समवेतांश्च तान्सर्वान्पौरजानपदानथ ॥ ११ ॥
ब्राह्मणांश्च महीपालान्नानादेशसमागतान् ।ततः प्राह महातेजा धृतराष्ट्रो महीपतिः ॥ १२ ॥
शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः ।क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः ॥ १३ ॥
भवन्तः कुरवश्चैव बहुकालं सहोषिताः ।परस्परस्य सुहृदः परस्परहिते रताः ॥ १४ ॥
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते ।तथा भवद्भिः कर्तव्यमविचार्य वचो मम ॥ १५ ॥
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे ।व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च ।भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा ॥ १६ ॥
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती ।न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम ॥ १७ ॥
श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः ।उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ॥ १८ ॥
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् ।मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः ॥ १९ ॥
मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः ।ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ ॥ २० ॥
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः ।बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ ॥ २१ ॥
तानविब्रुवतः किंचिद्दुःखशोकपरायणान् ।पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् ॥ २२ ॥
« »