Click on words to see what they mean.

नकुल उवाच ।हन्त वो वर्तयिष्यामि दानस्य परमं फलम् ।न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥ १ ॥
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते ।उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥ २ ॥
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः ।वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥ ३ ॥
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः ।षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ।भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥ ४ ॥
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे ।नाविद्यत तदा विप्राः संचयस्तान्निबोधत ।क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥ ५ ॥
काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम् ।क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥ ६ ॥
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे ।उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ।उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ॥ ७ ॥
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि ।क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥ ८ ॥
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् ।यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥ ९ ॥
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि ।कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥ १० ॥
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा ।ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ॥ ११ ॥
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा ।विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥ १२ ॥
अनसूयवो गतक्रोधाः साधवो गतमत्सराः ।त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥ १३ ॥
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् ।कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥ १४ ॥
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ ।शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ।प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥ १५ ॥
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः ।भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥ १६ ॥
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् ।आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥ १७ ॥
तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति ।गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः ॥ १८ ॥
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः ।क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ॥ १९ ॥
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् ।त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ॥ २० ॥
अपि कीटपतंगानां मृगाणां चैव शोभने ।स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ॥ २१ ॥
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च ।प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ॥ २२ ॥
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज ।सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥ २३ ॥
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः ।स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ॥ २४ ॥
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः ।भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥ २५ ॥
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम ।पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ॥ २६ ॥
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् ।उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥ २७ ॥
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् ।द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥ २८ ॥
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः ।तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥ २९ ॥
पुत्र उवाच ।सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम ।इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥ ३० ॥
भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम ।साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ॥ ३१ ॥
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् ।श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ॥ ३२ ॥
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया ।प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥ ३३ ॥
पितोवाच ।अपि वर्षसहस्री त्वं बाल एव मतो मम ।उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ॥ ३४ ॥
बालानां क्षुद्बलवती जानाम्येतदहं विभो ।वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥ ३५ ॥
जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च ।दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥ ३६ ॥
पुत्र उवाच ।अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः ।आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥ ३७ ॥
पितोवाच ।रूपेण सदृशस्त्वं मे शीलेन च दमेन च ।परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ॥ ३८ ॥
इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः ।प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥ ३९ ॥
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह ।उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ॥ ४० ॥
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया ।सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ॥ ४१ ॥
संतानात्तव संतानं मम विप्र भविष्यति ।सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ॥ ४२ ॥
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः ।पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥ ४३ ॥
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च ।तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ॥ ४४ ॥
पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम ।पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ॥ ४५ ॥
श्वशुर उवाच ।वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै ।कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥ ४६ ॥
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः ।कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ॥ ४७ ॥
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् ।कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ॥ ४८ ॥
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया ।उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥ ४९ ॥
स्नुषोवाच ।गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् ।देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ॥ ५० ॥
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः ।तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ॥ ५१ ॥
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज ।चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥ ५२ ॥
श्वशुर उवाच ।अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे ।या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥ ५३ ॥
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् ।गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ॥ ५४ ॥
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये ।ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥ ५५ ॥
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् ।वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ॥ ५६ ॥
शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः ।यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ॥ ५७ ॥
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः ।गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ॥ ५८ ॥
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः ।स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥ ५९ ॥
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये ।काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ॥ ६० ॥
पितृलोकगताः सर्वे तारिताः पितरस्त्वया ।अनागताश्च बहवः सुबहूनि युगानि च ॥ ६१ ॥
ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा ।अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ॥ ६२ ॥
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत ।तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ॥ ६३ ॥
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा ।कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ॥ ६४ ॥
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति ।क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥ ६५ ॥
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् ।यदा दानरुचिर्भवति तदा धर्मो न सीदति ॥ ६६ ॥
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च ।धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ॥ ६७ ॥
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् ।कालः परतरो दानाच्छ्रद्धा चापि ततः परा ॥ ६८ ॥
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते ।स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ॥ ६९ ॥
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः ।ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ॥ ७० ॥
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च ।दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥ ७१ ॥
रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः ।शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥ ७२ ॥
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः ।न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥ ७३ ॥
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः ।एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ॥ ७४ ॥
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः ।प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ॥ ७५ ॥
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् ।न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ॥ ७६ ॥
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति ।न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥ ७७ ॥
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः ।न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥ ७८ ॥
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ ।विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ॥ ७९ ॥
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् ।आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ॥ ८० ॥
पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते ।सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥ ८१ ॥
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः ।सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ॥ ८२ ॥
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा ।भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥ ८३ ॥
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च ।दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ।विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ॥ ८४ ॥
तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह ।शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ।पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥ ८५ ॥
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः ।तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ॥ ८६ ॥
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः ।आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥ ८७ ॥
ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः ।सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥ ८८ ॥
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः ।न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥ ८९ ॥
वैशंपायन उवाच ।इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा ।जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ॥ ९० ॥
एतत्ते सर्वमाख्यातं मया परपुरंजय ।यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ॥ ९१ ॥
न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन ।ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥ ९२ ॥
अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् ।तपो दमश्च सत्यं च दानं चेति समं मतम् ॥ ९३ ॥
« »