Click on words to see what they mean.

जनमेजय उवाच ।पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः ।यदाश्चर्यमभूत्किंचित्तद्भवान्वक्तुमर्हति ॥ १ ॥
वैशंपायन उवाच ।श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् ।अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो ॥ २ ॥
तर्पितेषु द्विजाग्र्येषु ज्ञातिसंबन्धिबन्धुषु ।दीनान्धकृपणे चापि तदा भरतसत्तम ॥ ३ ॥
घुष्यमाणे महादाने दिक्षु सर्वासु भारत ।पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥ ४ ॥
बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ ।वज्राशनिसमं नादममुञ्चत विशां पते ॥ ५ ॥
सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् ।मानुषं वचनं प्राह धृष्टो बिलशयो महान् ॥ ६ ॥
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ।उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ ७ ॥
तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते ।विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ॥ ८ ॥
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः ।कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ॥ ९ ॥
किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् ।कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ॥ १० ॥
अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् ।यथागमं यथान्यायं कर्तव्यं च यथाकृतम् ॥ ११ ॥
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा ।मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् ॥ १२ ॥
तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि ।क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः ॥ १३ ॥
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः ।अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ॥ १४ ॥
ज्ञातिसंबन्धिनस्तुष्टाः शौचेन च नृपस्य नः ।देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ॥ १५ ॥
यदत्र तथ्यं तद्ब्रूहि सत्यसंध द्विजातिषु ।यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ॥ १६ ॥
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च ।समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ॥ १७ ॥
इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् ।नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः ॥ १८ ॥
यन्मयोक्तमिदं किंचिद्युष्माभिश्चाप्युपश्रुतम् ।सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ।उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ १९ ॥
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुंगवाः ।शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः ॥ २० ॥
अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् ।उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ॥ २१ ॥
स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः ।यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ॥ २२ ॥
« »