Click on words to see what they mean.

वैशंपायन उवाच ।शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः ।तुरगं तं यथाशास्त्रमालभन्त द्विजातयः ॥ १ ॥
ततः संज्ञाप्य तुरगं विधिवद्याजकर्षभाः ।उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् ।कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ॥ २ ॥
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः ।श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ ॥ ३ ॥
तं वपाधूमगन्धं तु धर्मराजः सहानुजः ।उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा ॥ ४ ॥
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप ।तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ॥ ५ ॥
संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः ।व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥ ६ ॥
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि ।कोटीसहस्रं निष्काणां व्यासाय तु वसुंधराम् ॥ ७ ॥
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः ।अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ॥ ८ ॥
पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम ।निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः ॥ ९ ॥
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः ।भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥ १० ॥
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता ।अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया ॥ ११ ॥
वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् ।चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥ १२ ॥
नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः ।इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ॥ १३ ॥
इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा ।एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ॥ १४ ॥
ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत ।तथैव द्विजसंघानां शंसतां विबभौ स्वनः ॥ १५ ॥
द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् ।उवाच मध्ये विप्राणामिदं संपूजयन्मुनिः ॥ १६ ॥
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् ।हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते ॥ १७ ॥
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् ।यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि ॥ १८ ॥
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह ।कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः ॥ १९ ॥
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः ।यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ॥ २० ॥
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः ।ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ॥ २१ ॥
पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः ।धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ॥ २२ ॥
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा ।व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् ॥ २३ ॥
यज्ञवाटे तु यत्किंचिद्धिरण्यमपि भूषणम् ।तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः ।युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ॥ २४ ॥
अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु ।तथा विट्शूद्रसंघाश्च तथान्ये म्लेच्छजातयः ।कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ॥ २५ ॥
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् ।तर्पिता वसुना तेन धर्मराज्ञा महात्मना ॥ २६ ॥
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् ।प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ॥ २७ ॥
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा ।चकार पुण्यं लोके तु सुमहान्तं पृथा तदा ॥ २८ ॥
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह ।सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव ॥ २९ ॥
पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा ।अशोभन्त महाराज ग्रहास्तारागणैरिव ॥ ३० ॥
राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च ।गजानश्वानलंकारान्स्त्रियो वस्त्राणि काञ्चनम् ॥ ३१ ॥
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले ।विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा ॥ ३२ ॥
आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् ।प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा ॥ ३३ ॥
दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ ।स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् ॥ ३४ ॥
राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् ।प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ॥ ३५ ॥
एवं बभूव यज्ञः स धर्मराजस्य धीमतः ।बह्वन्नधनरत्नौघः सुरामैरेयसागरः ॥ ३६ ॥
सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः ।रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ ॥ ३७ ॥
भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति ।पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते ॥ ३८ ॥
मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् ।मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा ॥ ३९ ॥
दीयतां भुज्यतां चेति दिवारात्रमवारितम् ।तं महोत्सवसंकाशमतिहृष्टजनाकुलम् ।कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥ ४० ॥
वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा ।विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥ ४१ ॥
« »