Click on words to see what they mean.

वैशंपायन उवाच ।स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् ।पितामहीमभ्यवदत्साम्ना परमवल्गुना ॥ १ ॥
तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च ।पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः ।सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ॥ २ ॥
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च ।द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः ॥ ३ ॥
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने ।सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया ॥ ४ ॥
स च राजा महावीर्यः पूजितो बभ्रुवाहनः ।धृतराष्ट्रं महीपालमुपतस्थे यथाविधि ॥ ५ ॥
युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् ।उपगम्य महातेजा विनयेनाभ्यवादयत् ॥ ६ ॥
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि ।धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ॥ ७ ॥
तथैव स महीपालः कृष्णं चक्रगदाधरम् ।प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ॥ ८ ॥
तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् ।रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ॥ ९ ॥
धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा ।पृथक्पृथगतीवैनं मानार्हं समपूजयन् ॥ १० ॥
ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः ।युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ॥ ११ ॥
अद्य प्रभृति कौन्तेय यजस्व समयो हि ते ।मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः ॥ १२ ॥
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् ।बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ॥ १३ ॥
एवमेव महाराज दक्षिणां त्रिगुणां कुरु ।त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ॥ १४ ॥
त्रीनश्वमेधानत्र त्वं संप्राप्य बहुदक्षिणान् ।ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ॥ १५ ॥
पवित्रं परमं ह्येतत्पावनानां च पावनम् ।यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ॥ १६ ॥
इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा ।दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा ।नराधिपः प्रायजत वाजिमेधं महाक्रतुम् ॥ १७ ॥
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः ।परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ॥ १८ ॥
न तेषां स्खलितं तत्र नासीदपहुतं तथा ।क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ॥ १९ ॥
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः ।चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ॥ २० ॥
अभिषूय ततो राजन्सोमं सोमपसत्तमाः ।सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः ॥ २१ ॥
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह ।क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः ॥ २२ ॥
भोजनं भोजनार्थिभ्यो दापयामास नित्यदा ।भीमसेनो महातेजाः सततं राजशासनात् ॥ २३ ॥
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः ।दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ॥ २४ ॥
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः ।नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः ॥ २५ ॥
ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ ।खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ॥ २६ ॥
देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ ।श्लेष्मातकमयं चैकं याजकाः समकारयन् ॥ २७ ॥
शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ ।स भीमः कारयामास धर्मराजस्य शासनात् ॥ २८ ॥
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः ।नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि ॥ २९ ॥
इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् ।शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः ॥ ३० ॥
चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः ।स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः ॥ ३१ ॥
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः ।तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ॥ ३२ ॥
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये ।सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ॥ ३३ ॥
यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा ।अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः ॥ ३४ ॥
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः ।गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः ॥ ३५ ॥
स किंपुरुषगीतैश्च किंनरैरुपशोभितः ।सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ॥ ३६ ॥
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः ।सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ॥ ३७ ॥
नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः ।विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ॥ ३८ ॥
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः ।रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ॥ ३९ ॥
« »