Click on words to see what they mean.

युधिष्ठिर उवाच ।श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् ।तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ॥ १ ॥
बहूनि किल युद्धानि विजयस्य नराधिपैः ।पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ॥ २ ॥
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः ।अतीव विजयो धीमानिति मे दूयते मनः ॥ ३ ॥
संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः ।किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ।अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥ ४ ॥
अतीव दुःखभागी स सततं कुन्तिनन्दनः ।न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन ।श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥ ५ ॥
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् ।राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥ ६ ॥
न ह्यस्य नृपते किंचिदनिष्टमुपलक्षये ।ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ॥ ७ ॥
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते ।न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ॥ ८ ॥
इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता ।प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥ ९ ॥
कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत ।प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ।सख्युः सखा हृषीकेशः साक्षादिव धनंजयः ॥ १० ॥
तत्र भीमादयस्ते तु कुरवो यादवास्तथा ।रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो ॥ ११ ॥
तथा कथयतामेव तेषामर्जुनसंकथाः ।उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः ॥ १२ ॥
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् ।उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ॥ १३ ॥
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः ।प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ॥ १४ ॥
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत ।आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे ॥ १५ ॥
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः ।अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥ १६ ॥
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः ।दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥ १७ ॥
कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् ।चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् ॥ १८ ॥
ये व्यतीता महात्मानो राजानः सगरादयः ।तेषामपीदृशं कर्म न किंचिदनुशुश्रुम ॥ १९ ॥
नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः ।यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ॥ २० ॥
इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः ।शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥ २१ ॥
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः ।धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ॥ २२ ॥
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः ।भीमादींश्चापि संपूज्य पर्यष्वजत केशवम् ॥ २३ ॥
तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि ।विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ॥ २४ ॥
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः ।मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥ २५ ॥
स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः ।प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥ २६ ॥
« »