Click on words to see what they mean.

वैशंपायन उवाच ।शकुनेस्तु सुतो वीरो गान्धाराणां महारथः ।प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ।हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ॥ १ ॥
अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् ।अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥ २ ॥
तानुवाच स धर्मात्मा बीभत्सुरपराजितः ।युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ॥ ३ ॥
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः ।परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥ ४ ॥
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः ।क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ॥ ५ ॥
ते वध्यमानाः पार्थेन हयमुत्सृज्य संभ्रमात् ।न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥ ६ ॥
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः ।आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ॥ ७ ॥
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः ।स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥ ८ ॥
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् ।पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ।अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ॥ ९ ॥
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः ।स शक्रसमकर्माणमवाकिरत सायकैः ॥ १० ॥
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा ।अपाहरदसंभ्रान्तो जयद्रथशिरो यथा ॥ ११ ॥
तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते ।इच्छता तेन न हतो राजेत्यपि च ते विदुः ॥ १२ ॥
गान्धारराजपुत्रस्तु पलायनकृतक्षणः ।बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ॥ १३ ॥
तेषां तु तरसा पार्थस्तत्रैव परिधावताम् ।विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥ १४ ॥
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् ।शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥ १५ ॥
संभ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् ।हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ॥ १६ ॥
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः ।रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ॥ १७ ॥
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा ।जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ॥ १८ ॥
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् ।प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥ १९ ॥
तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा ।शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥ २० ॥
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता ।प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥ २१ ॥
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च ।तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥ २२ ॥
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी ।आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ २३ ॥
« »