Click on words to see what they mean.

अर्जुन उवाच ।किमागमनकृत्यं ते कौरव्यकुलनन्दिनि ।मणिपूरपतेर्मातुस्तथैव च रणाजिरे ॥ १ ॥
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे ।मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ॥ २ ॥
कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने ।अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥ ३ ॥
कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी ।चित्राङ्गदा वरारोहा नापराध्यति किंचन ॥ ४ ॥
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ ।न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ।न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ॥ ५ ॥
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् ।न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥ ६ ॥
त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ ।यत्तच्छृणु महाबाहो निखिलेन धनंजय ॥ ७ ॥
महाभारतयुद्धे यत्त्वया शांतनवो नृपः ।अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥ ८ ॥
न हि भीष्मस्त्वया वीर युध्यमानो निपातितः ।शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ॥ ९ ॥
तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् ।कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ॥ १० ॥
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि ।वसुभिर्वसुधापाल गङ्गया च महामते ॥ ११ ॥
पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया ।गङ्गायास्तीरमागम्य हते शांतनवे नृपे ॥ १२ ॥
आप्लुत्य देवा वसवः समेत्य च महानदीम् ।इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥ १३ ॥
एष शांतनवो भीष्मो निहतः सव्यसाचिना ।अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि ॥ १४ ॥
तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे ।शापेन योजयामेति तथास्त्विति च साब्रवीत् ॥ १५ ॥
तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया ।अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥ १६ ॥
पिता तु मे वसून्गत्वा त्वदर्थं समयाचत ।पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ॥ १७ ॥
पुनस्तस्य महाभाग मणिपूरेश्वरो युवा ।स एनं रणमध्यस्थं शरैः पातयिता भुवि ॥ १८ ॥
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति ।गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥ १९ ॥
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः ।न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥ २० ॥
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः ।नात्र दोषो मम मतः कथं वा मन्यसे विभो ॥ २१ ॥
इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् ।सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥ २२ ॥
इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः ।चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ॥ २३ ॥
युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति ।तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥ २४ ॥
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः ।उवाच पितरं धीमानिदमस्राविलेक्षणः ॥ २५ ॥
उपयास्यामि धर्मज्ञ भवतः शासनादहम् ।अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥ २६ ॥
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् ।भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ॥ २७ ॥
उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो ।पुनरश्वानुगमनं कर्तासि जयतां वर ॥ २८ ॥
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः ।स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥ २९ ॥
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् ।न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥ ३० ॥
यथाकामं प्रयात्येष यज्ञियश्च तुरंगमः ।स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥ ३१ ॥
स तत्र विधिवत्तेन पूजितः पाकशासनिः ।भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥ ३२ ॥
« »