Click on words to see what they mean.

वैशंपायन उवाच ।श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः ।निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः ॥ १ ॥
मणिपूरेश्वरं त्वेवमुपयातं धनंजयः ।नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् ॥ २ ॥
उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा ।प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ॥ ३ ॥
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् ।यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक ॥ ४ ॥
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् ।यो मां युद्धाय संप्राप्तं साम्नैवाथो त्वमग्रहीः ॥ ५ ॥
न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता ।यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः ॥ ६ ॥
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते ।प्रक्रियेयं ततो युक्ता भवेत्तव नराधम ॥ ७ ॥
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा ।अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् ॥ ८ ॥
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् ।संतर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो ॥ ९ ॥
ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा ।उलूपी प्राह वचनं क्षत्रधर्मविशारदा ॥ १० ॥
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् ।कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ॥ ११ ॥
युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिंदम ।एवमेष हि ते प्रीतो भविष्यति न संशयः ॥ १२ ॥
एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः ।मनश्चक्रे महातेजा युद्धाय भरतर्षभ ॥ १३ ॥
संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् ।तूणीरशतसंबाधमारुरोह महारथम् ॥ १४ ॥
सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः ।सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् ॥ १५ ॥
परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् ।प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ॥ १६ ॥
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् ।ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ॥ १७ ॥
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः ।पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ॥ १८ ॥
ततः स राजा तं वीरं शरव्रातैः सहस्रशः ।अर्दयामास निशितैराशीविषविषोपमैः ॥ १९ ॥
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् ।देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ॥ २० ॥
किरीटिनं तु विव्याध शरेण नतपर्वणा ।जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः ॥ २१ ॥
सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ।विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् ॥ २२ ॥
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् ।दिव्यं तेजः समाविश्य प्रमीत इव संबभौ ॥ २३ ॥
स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः ।पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते ॥ २४ ॥
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज ।सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ॥ २५ ॥
विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव ।इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ॥ २६ ॥
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् ।नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा ॥ २७ ॥
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् ।सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ॥ २८ ॥
हयांश्चास्य महाकायान्महावेगपराक्रमान् ।चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः ॥ २९ ॥
स रथादवतीर्याशु राजा परमकोपनः ।पदातिः पितरं कोपाद्योधयामास पाण्डवम् ॥ ३० ॥
संप्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् ।नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ॥ ३१ ॥
स हन्यमानो विमुखं पितरं बभ्रुवाहनः ।शरैराशीविषाकारैः पुनरेवार्दयद्बली ॥ ३२ ॥
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा ।निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः ॥ ३३ ॥
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः ।विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ॥ ३४ ॥
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः ।महीं जगाम मोहार्तस्ततो राजन्धनंजयः ॥ ३५ ॥
तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे ।सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः ॥ ३६ ॥
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् ।पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः ॥ ३७ ॥
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि ।चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् ॥ ३८ ॥
शोकसंतप्तहृदया रुदती सा ततः शुभा ।मणिपूरपतेर्माता ददर्श निहतं पतिम् ॥ ३९ ॥
« »