Click on words to see what they mean.

वैशंपायन उवाच ।ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः ।विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥ १ ॥
ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः ।विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ॥ २ ॥
तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् ।ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा ॥ ३ ॥
युध्यध्वं परया शक्त्या यतध्वं च वधे मम ।कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ॥ ४ ॥
एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् ।तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः ॥ ५ ॥
एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा ।ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ॥ ६ ॥
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः ।जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ।चिन्तयामास च तदा फल्गुनः पुरुषर्षभः ॥ ७ ॥
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति ।कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ॥ ८ ॥
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् ।इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः ।प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ॥ ९ ॥
बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् ।यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः ॥ १० ॥
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः ।अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः ॥ ११ ॥
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुंगवः ।अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः ॥ १२ ॥
ततः शतसहस्राणि शराणां नतपर्वणाम् ।मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ॥ १३ ॥
स तानापततः क्रूरानाशीविषविषोपमान् ।चिच्छेद निशितैर्बाणैरन्तरैव धनंजयः ॥ १४ ॥
छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् ।एकैकमेष दशभिर्बिभेद समरे शरैः ॥ १५ ॥
ततः प्रासांश्च शक्तीश्च पुनरेव धनंजये ।जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥ १६ ॥
तेषां किरीटी संकल्पं मोघं चक्रे महामनाः ।सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः ॥ १७ ॥
तथैवापततां तेषां योधानां जयगृद्धिनाम् ।शिरांसि पातयामास भल्लैः संनतपर्वभिः ॥ १८ ॥
तेषां प्रद्रवतां चैव पुनरेव च धावताम् ।निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥ १९ ॥
ते वध्यमानास्तु तदा पार्थेनामिततेजसा ।यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥ २० ॥
ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः ।कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ॥ २१ ॥
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा ।दुःशला बालमादाय नप्तारं प्रययौ तदा ।सुरथस्य सुतं वीरं रथेनानागसं तदा ॥ २२ ॥
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् ।सा धनंजयमासाद्य मुमोचार्तस्वरं तदा ।धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥ २३ ॥
समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा ।प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् ॥ २४ ॥
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः ।अभिवादयते वीर तं पश्य पुरुषर्षभ ॥ २५ ॥
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा ।क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ॥ २६ ॥
पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता ।पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह ॥ २७ ॥
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ ।त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ।पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय ॥ २८ ॥
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ ।विषादार्तः पपातोर्व्यां ममार च ममात्मजः ॥ २९ ॥
तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो ।गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ॥ ३० ॥
इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा ।दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥ ३१ ॥
स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च ।कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह ।विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥ ३२ ॥
अभिमन्योर्यथा जातः परिक्षित्परवीरहा ।तथायं सुरथाज्जातो मम पौत्रो महाभुज ॥ ३३ ॥
तमादाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम् ।शमार्थं सर्वयोधानां शृणु चेदं वचो मम ॥ ३४ ॥
आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः ।प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ॥ ३५ ॥
एष प्रसाद्य शिरसा मया सार्धमरिंदम ।याचते त्वां महाबाहो शमं गच्छ धनंजय ॥ ३६ ॥
बालस्य हतबन्धोश्च पार्थ किंचिदजानतः ।प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ॥ ३७ ॥
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् ।आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि ॥ ३८ ॥
एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः ।संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ।प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् ॥ ३९ ॥
धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् ।यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ॥ ४० ॥
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः ।परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥ ४१ ॥
दुःशला चापि तान्योधान्निवार्य महतो रणात् ।संपूज्य पार्थं प्रययौ गृहान्प्रति शुभानना ॥ ४२ ॥
ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः ।पुनरेवान्वधावत्स तं हयं कामचारिणम् ॥ ४३ ॥
ससार यज्ञियं वीरो विधिवत्स विशां पते ।तारामृगमिवाकाशे देवदेवः पिनाकधृक् ॥ ४४ ॥
स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् ।विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥ ४५ ॥
क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ ।मणिपूरपतेर्देशमुपायात्सहपाण्डवः ॥ ४६ ॥
« »