Click on words to see what they mean.

वैशंपायन उवाच ।सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः ।हतशेषैर्महाराज हतानां च सुतैरपि ॥ १ ॥
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् ।प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ॥ २ ॥
अश्वं च तं परामृश्य विषयान्ते विषोपमाः ।न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ॥ ३ ॥
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च ।बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ॥ ४ ॥
ततस्ते तु महावीर्या राजानः पर्यवारयन् ।जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि ॥ ५ ॥
ते नामान्यथ गोत्राणि कर्माणि विविधानि च ।कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ॥ ६ ॥
ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् ।रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥ ७ ॥
तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे ।सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥ ८ ॥
ते तमाजघ्निरे वीरं निवातकवचान्तकम् ।संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥ ९ ॥
ततो रथसहस्रेण हयानामयुतेन च ।कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टमयोधयन् ॥ १० ॥
संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः ।जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥ ११ ॥
ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् ।तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥ १२ ॥
स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः ।पञ्जरान्तरसंचारी शकुन्त इव भारत ॥ १३ ॥
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते ।त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः ॥ १४ ॥
ततो ववौ महाराज मारुतो रोमहर्षणः ।राहुरग्रसदादित्यं युगपत्सोममेव च ॥ १५ ॥
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः ।वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥ १६ ॥
मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः ।सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ॥ १७ ॥
शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् ।विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे ॥ १८ ॥
रासभारुणसंकाशा धनुष्मन्तः सविद्युतः ।आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ॥ १९ ॥
एवमासीत्तदा वीरे शरवर्षाभिसंवृते ।लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥ २० ॥
तस्य तेनावकीर्णस्य शरजालेन सर्वशः ।मोहात्पपात गाण्डीवमावापश्च करादपि ॥ २१ ॥
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् ।सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे ॥ २२ ॥
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः ।सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् ॥ २३ ॥
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च ।ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ॥ २४ ॥
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव ।तस्थावचलवद्धीमान्संग्रामे परमास्त्रवित् ॥ २५ ॥
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः ।यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥ २६ ॥
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः ।ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः ॥ २७ ॥
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः ।नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः ॥ २८ ॥
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः ।मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः ॥ २९ ॥
तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली ।अलातचक्रवद्राजञ्शरजालैः समर्पयत् ॥ ३० ॥
तदिन्द्रजालप्रतिमं बाणजालममित्रहा ।व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् ॥ ३१ ॥
मेघजालनिभं सैन्यं विदार्य स रविप्रभः ।विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥ ३२ ॥
« »