Click on words to see what they mean.

वैशंपायन उवाच ।एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ ।अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥ १ ॥
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः ।जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ॥ २ ॥
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे ।त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ॥ ३ ॥
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा ।हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ॥ ४ ॥
इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः ।प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥ ५ ॥
संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता ।उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ॥ ६ ॥
अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् ।समुक्षत महाराज शैलं नील इवाम्बुदः ॥ ७ ॥
स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः ।मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ॥ ८ ॥
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः ।आससाद द्रुतं राजन्कौरवाणां महारथम् ॥ ९ ॥
तमापतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम् ।गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥ १० ॥
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः ।कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ॥ ११ ॥
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः ।निवारयामास तदा वेलेव मकरालयम् ॥ १२ ॥
स नागप्रवरो वीर्यादर्जुनेन निवारितः ।तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा ॥ १३ ॥
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः ।उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥ १४ ॥
अर्जुनस्तु महाराज शरैः शरविघातिभिः ।वारयामास तानस्तांस्तदद्भुतमिवाभवत् ॥ १५ ॥
ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः ।प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् ॥ १६ ॥
तमापतन्तं संप्रेक्ष्य बलवान्पाकशासनिः ।नाराचमग्निसंकाशं प्राहिणोद्वारणं प्रति ॥ १७ ॥
स तेन वारणो राजन्मर्मण्यभिहतो भृशम् ।पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥ १८ ॥
स पतञ्शुशुभे नागो धनंजयशराहतः ।विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥ १९ ॥
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः ।तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥ २० ॥
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः ।राजानस्ते न हन्तव्या धनंजय कथंचन ॥ २१ ॥
सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् ।योधाश्चापि न हन्तव्या धनंजय रणे त्वया ॥ २२ ॥
वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः ।युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥ २३ ॥
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप ।उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥ २४ ॥
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् ।तदाश्वमेधो भविता धर्मराजस्य धीमतः ॥ २५ ॥
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा ।तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥ २६ ॥
« »