Click on words to see what they mean.

वैशंपायन उवाच ।प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः ।भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ॥ १ ॥
स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम् ।युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः ॥ २ ॥
सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः ।अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ॥ ३ ॥
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा ।गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ॥ ४ ॥
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः ।हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ॥ ५ ॥
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः ।आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ॥ ६ ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।दोधूयता चामरेण श्वेतेन च महारथः ॥ ७ ॥
ततः पार्थं समासाद्य पाण्डवानां महारथम् ।आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे ॥ ८ ॥
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् ।प्रेषयामास संक्रुद्धस्ततः श्वेतहयं प्रति ॥ ९ ॥
विक्षरन्तं यथा मेघं परवारणवारणम् ।शास्त्रवत्कल्पितं संख्ये त्रिसाहं युद्धदुर्मदम् ॥ १० ॥
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः ।तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् ॥ ११ ॥
तमापतन्तं संप्रेक्ष्य क्रुद्धो राजन्धनंजयः ।भूमिष्ठो वारणगतं योधयामास भारत ॥ १२ ॥
वज्रदत्तस्तु संक्रुद्धो मुमोचाशु धनंजये ।तोमरानग्निसंकाशाञ्शलभानिव वेगितान् ॥ १३ ॥
अर्जुनस्तानसंप्राप्तान्गाण्डीवप्रेषितैः शरैः ।द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा ॥ १४ ॥
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः ।इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ॥ १५ ॥
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् ।प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति ॥ १६ ॥
स तैर्विद्धो महातेजा वज्रदत्तो महाहवे ।भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ॥ १७ ॥
ततः स पुनरारुह्य वारणप्रवरं रणे ।अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ॥ १८ ॥
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् ।प्रेषयामास संक्रुद्धो ज्वलितानिव पावकान् ॥ १९ ॥
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ ।हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ॥ २० ॥
« »